विश्वास-प्रस्तुतिः - १७०६
गाम्भीर्यं भयदायि ते रसवशान् नानात्वम् अप्य् अद्भुतं
न स्थैर्यं शिरसा धृतस्य च मुखं दुर्वारम् एकान्ततः ।
शक्तिस् ते महतो’चलान् अपि भिदां नेतुं पयो ब्रूहि मे
सोदर्यास् तव किं खला विमजता लब्धास् त्वया यद्गुणाः ॥१७०६॥
मूलम् - १७०६

केशटस्य ।
विश्वास-प्रस्तुतिः - १७०७
स्वातन्त्र्यं तव नीचसर्पणम् अथो पात्रे स्थितौ नेयता
तच् चित्रं प्रकटीकरोति कलुषीभावो’न्यजन्यस् तव ।
स्नेहो हन्त तवान्तरं न लभते पृच्छामि तत् त्वाम् पयः
शिष्यः किं नु दूरीश्वरस् तव सखे किं वा त्वदीयो गुरुः ॥१७०७॥
मूलम् - १७०७

तस्यैव ।
विश्वास-प्रस्तुतिः - १७०८
चातुर्वर्ण्यविहारिणस् तव पयः स्पर्शो न गर्हाकरः
पात्रे सत्यकुलीनता न भवति त्वल्लाघवाद् गौरवम् ।
इत्थं लोकविनिन्दिते’पि चरिते त्वं मूर्तिर् ईशस्य चेत्
प्रायेणेश्वरभूषितस्य चरितं शक्नोति को गाहितुम् ॥१७०८॥
मूलम् - १७०८

विश्वास-प्रस्तुतिः - १७०९
अब्जं त्व् अब्जम् अथाब्जभूस् तत इतो ब्रह्माण्डमण्डाद् अभूद्
विश्वं स्थावरजङ्गमात्मकम् इदं त्वन्मूलम् इत्थं पयः ।
धिक् त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्
बध्यन्ते विवशास् त्वदेकगतयस् त्वाम् आश्रिता जन्तवः ॥१७०९॥
मूलम् - १७०९

तस्यैव । (शा।प। ११६६, सू।मु। ३६।१९)
विश्वास-प्रस्तुतिः - १७१०
शैत्यं नाम गुणस् तवैव सहजः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।
किं चातः परम् अस्ति ते स्तुतिपदं यज् जीवनं देहिनां
त्वं चेन् नीचपथेन गच्छसि पयः कस् त्वां निरोद्धुं क्षमः ॥१७१०॥
मूलम् - १७१०

तस्यैव । (शा।प। ११६५, सू।मु। ३६।२०)