०१३ चित्रोक्तिः

विश्वास-प्रस्तुतिः - १४३१

सन्तः कण्टकिताः कथं यदि कृता निष्कण्टका मेदिनी
प्रख्याता यदि ते गुणाः कथम् अथ प्रस्तौति दोषं जनः ।
नीतावाद्यधुरन्धरो यदि भवान् कस्माद् अनीतिः प्रजा
वृत्तं देव न चित्रम् एव हि न चेच् चित्रं विधत्ते कथम् ॥१४३१॥

मूलम् - १४३१

समन्तभद्रस्य ।

विश्वास-प्रस्तुतिः - १४३२

क्षौणीन्द्र त्यजति क्षमां त्वयि रणे दोःशालिनो’प्य् अक्षमाः
प्रतर्थिष्व् अथ कम्पमानतनुषु त्वं चापि कम्पाकुलः ।
त्वं गृह्णासि भुवः करं मृगदृशाम् एते’पि च स्वर्भुवां
तेभ्यस् तेभ्यो’धिकं नु किं गुणिभिर् अप्य् उद्गीयते यद् भवान् ॥१४३२॥

मूलम् - १४३२

धोयीकस्य ।

विश्वास-प्रस्तुतिः - १४३३

एकस् त्रिधा हृदि सदा वससीति चित्रं
यो विद्विषां च विदुषां च मृगीदृशां च ।
तापं च सम्मदरसं च रतिं च तन्वन्
शौर्योष्मणा च विनयेन च लीलया च ॥१४३३॥

मूलम् - १४३३

एकस् त्रिधा हृदि सदा वससीति चित्रं
यो विद्विषां च विदुषां च मृगीदृशां च ।
तापं च सम्मदरसं च रतिं च तन्वन्
शौर्योष्मणा च विनयेन च लीलया च ॥१४३३॥

कस्यचित् । (सु।र। १४३८, श्रीहनूमतः)

विश्वास-प्रस्तुतिः - १४३४

त्वं द्वित्राणि पदानि गच्छसि महीम् उल्लङ्घ्य यान्ति द्विषस्
त्वं बाणान् दश पञ्च मुञ्चसि बहून्य् अस्त्राणि मुञ्चन्ति ते ।
ते देवीपतयस् तवासि निहतास् त्वं मानुषीणां पतिस्
ते निन्द्यास् तव वर्णनं कथम् इति श्रीकर्णं निर्णीयताम् ॥१४३४॥

मूलम् - १४३४

विद्यापतेः । (स्व् २५१६)

विश्वास-प्रस्तुतिः - १४३५

कर्णः सर्वशिरोगतस् त्रिभुवने कर्णेन किं न श्रूतं
विश्राम्यन्ति मृगीदृशाम् अपि दृशः कर्णे न चित्रं क्वचित् ।
आश्चर्यं पुनर् एतद् एव यद् अयं निश्छिद्रसन्मण्डलः
सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ॥१४३५॥

मूलम् - १४३५

कस्यापि ।