विश्वास-प्रस्तुतिः - १४१६
लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१४१६॥
मूलम् - १४१६
लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१४१६॥
अभिनन्दस्य । (स।क।आ। ५।४६७, सु।र। १३९१)
विश्वास-प्रस्तुतिः - १४१७
लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्
भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीबालुकाः ।
जीयासुः कलिकालकर्णनृपते दारिद्र्यदारूदर
व्याघूर्णद्धूणवृन्दलङ्घनमुषस् त्वत्पादयोः पांशवः ॥१४१७॥
मूलम् - १४१७

वल्लणस्य । (सु।र। १४१६)
विश्वास-प्रस्तुतिः - १४१८
देवस्याङ्घ्रिनखप्रभासु निजया मौलीन्द्रनीलत्विषा
निर्माय त्रिदशापगायमुनयोः सम्भेदम् अत्यद्भुतम् ।
वन्द्य त्वत्पदवन्दनान्य् अघमिलद्दुष्कर्मनिर्मज्जन
प्रायश्चित्तम् इवाचरन् नरपतिः को नाम नो पुप्लुवे ॥१४१८॥
मूलम् - १४१८

प्रशस्तस्य ।
विश्वास-प्रस्तुतिः - १४१९
लक्ष्मीविभ्रमसद्मसुभगं के नाम नोर् बीभुजो
देव त्वच्चरणं व्रजन्ति शरणे श्रीरक्षणकाङ्क्षिणः ।
छायायाम् अनुगम्य सम्यग् अभयास् त्वद्वीर्यसूर्यातप
व्याप्ताम् अप्य् अवनीम् अटन्ति रिपवस् त्यक्तातपत्राः ॥१४१९॥
मूलम् - १४१९

जयदेवस्य ।
विश्वास-प्रस्तुतिः - १४२०
आ पूर्वस्माद् विडौजःकरिवमथुपयःसिक्तसानोर् गिरीन्द्राद्
आ च प्रत्यक्पयोधेर् वरुणवरवधूनाभिनिष्पीतवारः ।
आ मेरोरा च सेतोर् अवनितलमिलन्मौलिविस्रंसमान
स्रग्दामानो यद् ईयं चरणम् अशरणाः पर्युपासन् नरेन्द्राः ॥१४२०॥
मूलम् - १४२०

वसुकल्पस्य ।