००९ करः

विश्वास-प्रस्तुतिः - १४११

उद्दण्डकोकनदकोमलकोशकान्तिः
कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
मित्रद्विजातिरिपुवर्गविलासिनीनां
सम्मानदानभयभोगकरः करस् ते ॥१४११॥

मूलम् - १४११

उद्दण्डकोकनदकोमलकोशकान्तिः
कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
मित्रद्विजातिरिपुवर्गविलासिनीनां
सम्मानदानभयभोगकरः करस् ते ॥१४११॥

विद्यायाः । (सू।मु। ९७।५०)

विश्वास-प्रस्तुतिः - १४१२

निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्थिकूटावट
स्थानस्थायुकमौक्तिकोत्करकिरः कैर् अस्य नायं करः ।
उन्नीतश् चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुर
क्षुण्णासु क्षितिषु क्षिपन्न् इव यशः क्षौणीजबीजव्रजम् ॥१४१२॥

मूलम् - १४१२

श्रीहर्षस्य । (न्च् १२।६६)

विश्वास-प्रस्तुतिः - १४१३

अस्माभिः स्मयलोलमौलिफलकैर् मुक्ताविसाराधिपं
वेदोद्धारपरः करस् तव परं दानाम्बुपूतः स्तुतः ।
किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते
दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥१४१३॥

मूलम् - १४१३

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - १४१४

तेषाम् अल्पतरः स कल्पविटपी तेषां न चिन्तामणिश्
चिन्ताम् अप्य् उपयाति कामसुरभिस् तेषां न कामास्पदम् ।
दीनोद्धारधुरीणपुण्यचरितो येषां प्रसन्नो मनाक्
पाणिस् ते धरणीन्द्र सुन्दरयशःसंरक्षिणो दक्षिणः ॥१४१४॥

मूलम् - १४१४

जयदेवस्य ।

विश्वास-प्रस्तुतिः - १४१५

देव त्वत्करपल्लवो विजयताम् अश्रान्तविश्राणन
क्रीडास्कन्दितकल्पवृक्षविभवः कीर्तिप्रसूनोज्ज्वलः ।
यस्योत्सर्गजलच्छलेन गलिताः स्यन्दानदानोदक
स्रोतोभिर् विदुषां ललाटलिखिता दैन्याक्षरश्रेणयः ॥१४१५॥

मूलम् - १४१५

तस्यैव ।