विश्वास-प्रस्तुतिः - १६८१
व्याप्याशाः शयितस्य वीचिवलनैर् उल्लिख्य खं प्रेङ्खतः
सिन्धोर् लोचनगोचरः स महिमा तेषां तनोत्य् अद्भुतम् ।
संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलिर् नीरवो
यैर् नायं करशुक्तिकोदरगतो दृष्टो मुनेर् अञ्जलौ ॥१६८१॥
मूलम् - १६८१

अभिनन्दस्य । (सु।र। १०५८)
विश्वास-प्रस्तुतिः - १६८२
उद्दामार्कमरीचिमूर्च्छितदृशां येनाध्वगानाम् अयं
वेलालम्बनजागरूकमनसाम् आरम्भि कर्णज्वरः ।
क्लेशोच्छृङ्खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर्
लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥१६८२॥
मूलम् - १६८२

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - १६८३
अयं वाराम् एको निलय इति रत्नाकर इति
श्रितो’स्माभिस् तृष्णातरलितमनोभिर् जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरम् आपास्यति मुनिः ॥१६८३॥
मूलम् - १६८३

विद्यापतेः । (कुवल्, प्। १०८, सू।मु। २७।१८, सु।र। १०२५, कविनन्दस्य)
विश्वास-प्रस्तुतिः - १६८४
अये वारां राशे कतिपयपयोबिन्दुविभवैर्
अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।
न किं लोपामुद्रासहचरकरक्रोडकुहरे
भवान् दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥१६८४॥
मूलम् - १६८४

विश्वेश्वरस्य ।
विश्वास-प्रस्तुतिः - १६८५
तावद् वेला विषमसलिलावर्तनाभीनिकुञ्ज
क्रोडभ्राम्यन्मकरशिखरिग्रावरौद्रः समुद्रः ।
दृष्टो यावन् न खलु चुलुकीभूतनिष्पन्दमूर्तिर्
लोपामुद्रासहचरकरस्वस्तिकोत्सङ्गवर्ती ॥१६८५॥
मूलम् - १६८५

लोपामुद्राकवेः ।