००८ भुजः

विश्वास-प्रस्तुतिः - १४०६

वाल्मीकेः कतमो’सि कस् त्वम् अथवा व्यासस्य येनैष भोः
श्लाघ्यः स्यात् तव भोजभूपतिभुजस्तम्भस्तुताव् उद्यमः ।
पङ्गुः पर्वतम् आरुरुक्षसि विधुस्पर्शं करेणेहसे
दोर्भ्यां सागरम् उत्तितीर्षसि यदि ब्रूमः किम् अत्रोत्तरम् ॥१४०६॥

मूलम् - १४०६

छित्तपस्य ।

विश्वास-प्रस्तुतिः - १४०७

अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास् तथाम्भोधयस्
तान् एतान् अपि बिभ्रती किम् अपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण पुनः पुनः स्तुतिम् इमां प्रस्तौमि यावद् भुवस्
तावद् विभ्रद् इमां स्मृतस् तव भुजो वाचस् ततो मुद्रिताः ॥१४०७॥

मूलम् - १४०७

तस्यैव । (क्प् ११८, कुवल्, १८३, सू।मु। ९७।१०)

विश्वास-प्रस्तुतिः - १४०८

मिथ्या देव भुजेन ते’ल्पविभवः कल्पद्रुमः स्पर्धते
नह्य् एनं भुवनत्रयाभयमहासत्री कृपाणो’र्चति ।
चिन्त्यस् तत्र भवान् सकल्पविटपी यस्यैतद् एकार्णवे
कल्पान्ते विनिवेश्य विश्वम् अखिलं छायासु शेते हरिः ॥१४०८॥

मूलम् - १४०८

तस्यैव । (स।क।आ। ३।१०१)

विश्वास-प्रस्तुतिः - १४०९

शैलेन्द्रो दशकन्धरेण तुलितस् तं चार्जुनो हेहयः
काराधाम्नि बबन्ध तस्य च भुजारण्यं मुनिश् छिन्नवान् ।
इत्थं ग्रन्थिनिबद्धविक्रमकथासन्देहशल्याकुल
त्रैलोक्यप्रतिपत्तिचुम्बकशिलास्तम्भस् तदीयो भुजः ॥१४०९॥

मूलम् - १४०९

भिक्षोः ।

विश्वास-प्रस्तुतिः - १४१०

प्रेतान्त्रोष्णीषवध्भिर् विकटकरिशिरःकर्पराक्रान्तहस्तैः
पार्श्वस्थाभिः प्रियाभिर् मदविकलपदं यत् तद् अप्य् उच्यमानैः ।
हेलानिर्वारितारे यममुसलपृथुः श्लाघ्यते दक्षिणस् ते
वेतालैः प्रस्तुतासु प्रतिसमरम् असृक्पानगोष्ठीषु बाहुः ॥१४१०॥

मूलम् - १४१०