विश्वास-प्रस्तुतिः - १६७१
आच्छिद्य लक्ष्मीम् इत एव पूर्वम्
अत्रैव विस्रम्भसुखप्रसुप्तः ।
एकः परं वेद स कैटभारिर्
महाशयत्वं मकरालयस्य ॥१६७१॥
मूलम् - १६७१
आच्छिद्य लक्ष्मीम् इत एव पूर्वम्
अत्रैव विस्रम्भसुखप्रसुप्तः ।
एकः परं वेद स कैटभारिर्
महाशयत्वं मकरालयस्य ॥१६७१॥
दशरथस्य ।
विश्वास-प्रस्तुतिः - १६७२
यद्यपि स्वच्छभावेन दर्शयत्य् अम्बुधिर् मणीन् ।
तथापि जानुदध्नो’यम् इति चेतसि मा कृथाः ॥१६७२॥
मूलम् - १६७२
यद्यपि स्वच्छभावेन दर्शयत्य् अम्बुधिर् मणीन् ।
तथापि जानुदध्नो’यम् इति चेतसि मा कृथाः ॥१६७२॥
भाष्यकारस्य । (शा।प। १०७९, स्व् ८५५)
विश्वास-प्रस्तुतिः - १६७३
उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा
लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता ।
गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान्
मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते पत्रिणः ॥१६७३॥
मूलम् - १६७३

लक्ष्मीधरस्य । (सु।र। १०५५)
विश्वास-प्रस्तुतिः - १६७४
अये वारां भर्तः कुलिशकरकोपप्रतिभयाद्
अयं पक्षप्रेम्णा गिरिपतिसुतस् त्वाम् उपगतः ।
त्वदन्तर्वास्तव्यो यदि पुनर् अयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः को’स्य शरणम् ॥१६७४॥
मूलम् - १६७४

बिभोकस्य ।
विश्वास-प्रस्तुतिः - १६७५
कियान् इन्दुस् तस्मिन्न् असति भवतः कैव गणना
त्वम् एतेनैवेह प्रसभम् असि रत्नाकर इति ।
दिशो विस्फायन्तां भवतु कृतकृत्यः स्मरहरो
हरेर् आस्तां चक्षुः प्रसरतु यशस् ते दिशि दिशि ॥१६७५॥
मूलम् - १६७५

शुङ्गोकस्य ।