००६ रूपम्

विश्वास-प्रस्तुतिः - १३९६

श्रीमद्रूपविटङ्कदेव सकलक्ष्मापालचुडामणे
युक्तं सञ्चरणं यद् अत्र भवतश् चन्द्रेण रात्राव् अपि ।
मा भूत् त्वद्वदनावलोकनवशाद् व्रीडाविलक्षः शशी
मा भूच् चेयम् अरुन्धती भगवती दुःशीलताभाजनम् ॥१३९६॥

मूलम् - १३९६

त्रिभुवनसरस्वत्याः ।

विश्वास-प्रस्तुतिः - १३९७

आवक्त्रेन्दु तदङ्गम् एव सृजतः स्रष्टुः समग्रस् त्विषां
कोषः शोषम् अगाद् अगाधजगतीशिल्पे’पि नाल्पायितः ।
निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस् तत् तनू
शेषः केशमयः किम् अन्धतमसस्तोमैर् अभून् निर्मितः ॥१३९७॥

मूलम् - १३९७

श्रीहर्षस्य ।

विश्वास-प्रस्तुतिः - १३९८

एतत् ते मुखम् अक्षतेन्दुलडहच्छायं भवल्लोचनं
नीलेन्दीवरनिर्विशेषम् अधरस् ते बन्धुजीवारुणः ।
भ्रूवल्लिस् तव कामकार्मुकलता लीलासहाध्यायिनी
न ध्यायन्तु कथं नु देव कथय त्वाम् एकम् एणीदृशः ॥१३९८॥

मूलम् - १३९८

हरेः ।

विश्वास-प्रस्तुतिः - १३९९

किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न
श्रान्ता किं न न सन्न्निपातलहरीप्रच्छर्दिता किं न न ।
तत् किं मुह्यति रोदिति श्वसिति च स्मेरं च धत्ते मुखं
दृष्टः किं कथम् अप्य् अकारणरिपुः श्रीभोजदेवो’नया ॥१३९९॥

मूलम् - १३९९

छित्तपस्य । (सु।र। ७४९)

विश्वास-प्रस्तुतिः - १४००

रूपासवं तव नृपेन्द्र यद् एणनेत्रा
मात्रां व्यतीत्य नयनाञ्जलिभिः पिबन्ति ।
स्वेदच्छलाद् अथ वमन्ति कदम्बकल्पैः
रङ्गैर् अनङ्गशरजर्जरितैर् भ्रमन्ति ॥१४००॥

मूलम् - १४००

शङ्करदेवस्य ।