विश्वास-प्रस्तुतिः - १३९१
भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे
त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे ।
न स्यास् त्वं यदि देव पङ्गुलगुङ्दः काले कलाव् उत्कले
सो’यं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥१३९१॥
मूलम् - १३९१

कस्यचित् । (सु।र। १४५५, चित्तूकस्य)
विश्वास-प्रस्तुतिः - १३९२
उच्छन्न् एव कलौ वृषस्य चरणश्रेणी नवीनां पुनस्
तां निर्माय कृतस् त्वया पुनर् अपि न्यस्तः पदस्यन्दनः ।
भिन्दानैस् तरणिं त्वदस्त्रनियतैर् एतत् किलोदीरितं
श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ॥१३९२॥
मूलम् - १३९२

आचार्यगोपीकस्य ।
विश्वास-प्रस्तुतिः - १३९३
पदैश् चतुर्भिः सुकृते स्थिरीकृते
कृते’मुना केन तपः प्रपेदिरे ।
भुवं यद् एकाङ्घ्रिकनिष्ठया स्पृशन्
दधावधर्मो’पि कृशस् तपस्विताम् ॥१३९३॥
मूलम् - १३९३
पदैश् चतुर्भिः सुकृते स्थिरीकृते
कृते’मुना केन तपः प्रपेदिरे ।
भुवं यद् एकाङ्घ्रिकनिष्ठया स्पृशन्
दधावधर्मो’पि कृशस् तपस्विताम् ॥१३९३॥
श्रीहर्षस्य । (न्च् १।७)
विश्वास-प्रस्तुतिः - १३९४
यूपैर् उत्कटकण्टकैर् इव मखप्रोद्भूतधूमोद्गमैर्
अप्य् अन्धङ्करणौषधैर् इव पदे नेत्रे च जातव्यथैः ।
यस्मिन् धर्मपरे प्रशासति तपःसम्भेदिनीं मेदिनीम्
आस्ताम् आक्रमितुं विलोकितुम् अपि व्यक्तं न शक्तः कलिः ॥१३९४॥
मूलम् - १३९४

जयदेवस्य ।
विश्वास-प्रस्तुतिः - १३९५
अश्रान्तविश्राणितयज्ञयूप
स्तम्भावलीर् द्रागवलम्बमानः ।
यस्य स्वभावाद् भुवि सञ्चचार
कालक्रमाद् एकपदो’पि धर्मः ॥१३९५॥
मूलम् - १३९५
अश्रान्तविश्राणितयज्ञयूप
स्तम्भावलीर् द्रागवलम्बमानः ।
यस्य स्वभावाद् भुवि सञ्चचार
कालक्रमाद् एकपदो’पि धर्मः ॥१३९५॥
उमापतिधरस्य ।