विश्वास-प्रस्तुतिः - १६५६
किं नैव सन्ति सुबहूनि महामहांसि
चन्द्रो’प्य् अलं भुवनमण्डलमण्डनाय ।
सूर्याद् ऋते न तद् उदेति न चास्तम् एति
येनोदितेन दिनम् अस्तम् इतेन रात्रिः ॥१६५६॥
मूलम् - १६५६

आनन्दवर्धनस्य । (सु।र। १२०२, कस्यचित्)
विश्वास-प्रस्तुतिः - १६५७
रात्राव् ओषधयो ज्वलन्ति कलयन्त्य् औज्ज्वल्यम् अप्य् अग्नयो
ज्योत्स्नाश् चन्द्रमसि स्फुरन्ति दधति ज्योतींषि तेजस्विताम् ।
अन्यच् च क्रिमयो’पि बिभ्रति महोलेशान् अमुष्यैव ताः
सर्वा एव निधेस् त्विषां भगवतो दीप्तिप्रतिच्छायिकाः ॥१६५७॥
मूलम् - १६५७

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - १६५८
अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि
प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
प्रष्टव्याः खलु यूयम् एव यदि को’प्य् अस्तं गते भास्वति
प्रौड्ःअध्वान्तपयोधिमग्नजगती हस्तावलम्बक्षमः ॥१६५८॥
मूलम् - १६५८

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - १६५९
अस्मिन् नक्तम् अहर् विवेकविकले कालाधमे नीरदैः
सन्नद्धैर् अभितो निरुद्धगगनाभोगासु दिग्भित्तिषु ।
भानोर् न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः
सत्तामात्रपरिग्रहेण विकसन्त्य् अद्यापि पद्माकराः ॥१६५९॥
मूलम् - १६५९

वासुदेवस्य ।
विश्वास-प्रस्तुतिः - १६६०
जगन्नेत्रश्रेणीतिमिरहरसिद्धाञ्जनसखा
मयूखा यस्यैते त्रिभुवनम् अमोघं विदधति ।
अये कर्मालङ्घ्यं कलय किम् अपीदं तनुभृताम्
उलूकानाम् अन्धङ्करणकिरणः सो’बरमणिः ॥१६६०॥
मूलम् - १६६०