००३ विद्या

विश्वास-प्रस्तुतिः - १३८१

वाचं निष्प्रथयन्ति मेयम् अखिलं पुष्णन्ति मुष्णन्ति च
प्रज्ञालाञ्छनम् अद्वयं प्रसुवते सारस्वतः ब्राह्मणः ।
सौभाग्यं दुहते श्रियं विदधति श्वः श्रेयसे तन्वते
भिन्दन्ति भ्रममुक्तयस् तव सताम् अष्टौ महासिद्धयः ॥१३८१॥

मूलम् - १३८१

भट्टवामदेवस्य ।

विश्वास-प्रस्तुतिः - १३८२

जाताः स्मः प्रतिवेशिनः पदविदां जानन्ति नः श्रोत्रियाः
षट्कर्माध्वनि गच्छतां च विदुषां सार्थे प्रपन्ना वयम् ।
दृष्टाः स्मः कविविद्यया मुकुलितैर् नत्रत्रिभागैश् चिरं
किं विद्मः कियद् अन्यथास्तु निकषग्रावा भवादृग्जनः ॥१३८२॥

मूलम् - १३८२

विद्यापतेः ।

विश्वास-प्रस्तुतिः - १३८३

अग्राह्यं श्रवणस्य भूषणम् अलङ्कारो न भावोचितः
कण्ठस्याञ्जनम् उज्ज्वलं नयनयोः सूक्ष्मत्वम् आवेक्षितुम् ।
वक्त्रस्य क्षणिको’धिवासनविधिः कान्ते प्रिये नाभव
सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥१३८३॥

मूलम् - १३८३

शुक्षोकस्य ।

विश्वास-प्रस्तुतिः - १३८४

कश्चिद् वाचो रचयितुम् अलं वोढुम् एवापरस् ताः
सा कल्याणी मतिर् उभयथा विस्मये नस् तनोति ।
नन्व् एकस्मिन्न् अतिशयवतां सन्निवेशो गुणानाम्
एकः सूते कनकम् अनलस् तत्परीक्षाक्षमो’न्यः ॥१३८४॥

मूलम् - १३८४

कालिदासस्य । (सु।र। १७२३)

विश्वास-प्रस्तुतिः - १३८५

देवः सर्वविवेचनैकनिपुणो देवः कवित्वे गुरुर्
देवस् तर्कनिशातनिर्मलमतिः श्रीराजचूडामणिः ।
इत्य् आकर्ण्य विजृम्भमाणपुलकस्फीता विरिशेर् मुखाः
सङ्गेष्व् अद्य सरस्वती … कृच्छ्रेण सम्मास्यति ॥१३८५॥

मूलम् - १३८५

वसुकल्पस्य ।