विश्वास-प्रस्तुतिः - १६५१
तुल्यैवेश्वरसेवा कर्म न विद्मः पुराकृतं कीदृक् ।
भृङ्गी यद् अस्थिशेषो भृशतरम् अकृशश् च कूष्माण्डः ॥१६५१॥
मूलम् - १६५१
तुल्यैवेश्वरसेवा कर्म न विद्मः पुराकृतं कीदृक् ।
भृङ्गी यद् अस्थिशेषो भृशतरम् अकृशश् च कूष्माण्डः ॥१६५१॥
वाक्पतेः ।
विश्वास-प्रस्तुतिः - १६५२
एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥१६५२॥
मूलम् - १६५२
एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥१६५२॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १६५३
कपर्दी भूतिसम्पन्नो जगतीपतिर् अद्वयः ।
धिग् दैवम् अव्ययः सो’पि भृङ्गी शुष्यत्यतो भृशम् ॥१६५३॥
मूलम् - १६५३
कपर्दी भूतिसम्पन्नो जगतीपतिर् अद्वयः ।
धिग् दैवम् अव्ययः सो’पि भृङ्गी शुष्यत्यतो भृशम् ॥१६५३॥
अमोघस्य ।
विश्वास-प्रस्तुतिः - १६५४
स्कन्दे मन्दावधानं चरति गणपतौ मौलिपातं न धत्ते
वृन्दे वृन्दारकाणां विनयवति भृशं नादरान् आतनोति ।
किं भूम्ना यश् च देवीं न नमति गिरिजां तस्य निर्व्याजवृत्तेः
क्षीआस्याप्य् एकनिष्ठा जयति भगवती भृङ्गिणस् तस्य भक्तिः ॥१६५४॥
मूलम् - १६५४

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - १६५५
कूटस्थं श्रवणोपकण्ठविलसत्क्रूरद्विजिह्वाश्रयं
दक्षद्वेषिणम् अङ्घ्रलङ्घितवृषं वैषम्यभीमेक्षणम् ।
ईशं निर्गुणव्ययप्रकृतिकं संसेव्य भृङ्गी चिराद्
यज् जीवत्य् अतिदुर्बलेन वपुषा मन्ये स एवोत्सवः ॥१६५५॥
मूलम् - १६५५