+३ चाटुप्रवाहवीचयः

विश्वास-प्रस्तुतिः - १

चाटुः सम्मुखचाटुर् विद्यागुणधर्मरूपम् अथ दृष्टिः ।
भुजकरचरणं प्रेयो’भिधानम् अत्युक्तिचित्रोक्ती ॥१॥

मूलम् - १

विश्वास-प्रस्तुतिः - २

अपि कार्यगती देशाश्रयौ च दानं दरिद्रभरणं च ।
अतिदानम् अपि च विक्रमपौरुषशौर्यप्रतापतेजांसि ॥२॥

मूलम् - २

विश्वास-प्रस्तुतिः - ३

गजवाजिनावनीकं खड्गोद्भुतखड्गकुपितकृपाणौ ।
चापं प्रयाणभोगावलितूर्यस्वानसैनिकरजांसि ॥३॥

मूलम् - ३

गजवाजिनावनीकं खड्गोद्भुतखड्गकुपितकृपाणौ ।
चापं प्रयाणभोगावलितूर्यस्वानसैनिकरजांसि ॥३॥

विश्वास-प्रस्तुतिः - ४

अश्वरजोरणधूलिर् युद्धं युद्धस्थली च दिग्विजयः ।
रिपुरिपुनगरीसम्भ्रमवैरिवधूवैरियोषिदश्रूणि ॥४॥

मूलम् - ४

विश्वास-प्रस्तुतिः - ५

अरिनगरवैरिभवने यशसा वीर्यं यशः प्रशस्तयशः ।
कीर्तिः सवीर्यकीर्तिः प्रशस्तकीर्तिश् च कीर्तिगीतिश् च ॥५॥

मूलम् - ५

विश्वास-प्रस्तुतिः - ६

उच्चावचं चतुर्भिर् युतया पञ्चाशताथ वीचीनाम् ।
श्रीधरदासेन कृतः कृतिना चाटुप्रवाहो’यम् ॥६॥

मूलम् - ६

ओ)०(ओ