विश्वास-प्रस्तुतिः - १
वयसोः सन्धिर् उदञ्चद्युवभावा युवतिरङ्गनाश्चर्यम् ।
मुग्धा मध्या प्रौढा नवपरिणीता च सैव विस्रब्धा ॥१॥
मूलम् - १

विश्वास-प्रस्तुतिः - २
गर्भवती सत्यवती स्वैरिण्य् उपदेशगुप्तबन्धक्यौ ।
वैदग्ध्यवती कुलटा लक्षितकुलटा च वारवनिता च ॥२॥
मूलम् - २

विश्वास-प्रस्तुतिः - ३
अपि दाक्षिणात्यपाश्चात्यौदीच्यप्राच्ययुवतयो ग्राम्याः ।
स्त्रीमात्रं खण्डितया सहान्यसम्भोगचिह्नदूना च ॥३॥
मूलम् - ३

विश्वास-प्रस्तुतिः - ४
कलितविरहिणी विरहिण्यस्या वाग् अश्रु दूतिकावचनम् ।
दयिते प्रियपुर्षोत्तरवचसी चेष्टानुकथनं च ॥४॥
मूलम् - ४

विश्वास-प्रस्तुतिः - ५
ताप तन्त्वोद्वेगक्षणदावस्थाविभावनं तस्याः ।
वासकसज्जा स्वाधीनभर्तृका विप्रलब्धा च ॥५॥
मूलम् - ५
ताप तन्त्वोद्वेगक्षणदावस्थाविभावनं तस्याः ।
वासकसज्जा स्वाधीनभर्तृका विप्रलब्धा च ॥५॥
विश्वास-प्रस्तुतिः - ६
कलहान्तरिता तद्वाक् सखीवचो गोत्रतः स्खलनम् ।
मानिन्य् उदात्तमानिन्य् अनुरक्तमनस्विनी तदीयोक्तिः ॥६॥
मूलम् - ६

विश्वास-प्रस्तुतिः - ७
तस्यां सखीप्रबोधो’नुनयो मानक्षतिः प्रवसतः स्त्री ।
यात्राक्षेपः प्रोषितपतिका तद्वाक् सखीषु तद्वचनम् ॥७॥
मूलम् - ७

विश्वास-प्रस्तुतिः - ८
तस्याः प्रियसंवादो’वस्थाकथनं प्रतीक्षणं पत्युः ।
काकः प्रियसम्भेदो’प्य् अथाभिसारक्रियारम्भः ॥८॥
मूलम् - ८

विश्वास-प्रस्तुतिः - ९
अभिसारिका दिनतमोज्योत्स्नादुर्दिनगता च कुलटानाम् ।
प्रलपितम् अबलारूपं भ्रूदृक्कर्णाधराननं वचनम् ॥९॥
मूलम् - ९

विश्वास-प्रस्तुतिः - १०
बाहुस्तनरोमावलिमध्यं च क्रीडितानि युवतीनाम् ।
अनुकूलो दक्षिणशठधृष्टग्राम्याश् च नायका मानी ॥१०॥
मूलम् - १०
बाहुस्तनरोमावलिमध्यं च क्रीडितानि युवतीनाम् ।
अनुकूलो दक्षिणशठधृष्टग्राम्याश् च नायका मानी ॥१०॥
विश्वास-प्रस्तुतिः - ११
प्रोषितपथिकौ वर्षापथिकः पथिकस्य नायिकास्मरणम् ।
यात्राभङ्गो विरहो विरहिस्त्रीस्मरणम् अवलोकः ॥११॥
मूलम् - ११
प्रोषितपथिकौ वर्षापथिकः पथिकस्य नायिकास्मरणम् ।
यात्राभङ्गो विरहो विरहिस्त्रीस्मरणम् अवलोकः ॥११॥
विश्वास-प्रस्तुतिः - १२
चित्रं स्वप्नो यूनोर् अभिलाषस् तानवं गुणाख्यानम् ।
उद्वेगः परिदेवनम् इद्नुस्मरजलमुचाम् उपालम्भः ॥१२॥
मूलम् - १२
चित्रं स्वप्नो यूनोर् अभिलाषस् तानवं गुणाख्यानम् ।
उद्वेगः परिदेवनम् इद्नुस्मरजलमुचाम् उपालम्भः ॥१२॥
विश्वास-प्रस्तुतिः - १३
उन्मादः स्मरलेखः क्रीडावनवारिणोर् अलङ्कारः ।
दूतीसंवदनं स्त्री पुंलोभनदूत्युपालम्भौ ॥१३॥
मूलम् - १३
उन्मादः स्मरलेखः क्रीडावनवारिणोर् अलङ्कारः ।
दूतीसंवदनं स्त्री पुंलोभनदूत्युपालम्भौ ॥१३॥
विश्वास-प्रस्तुतिः - १४
मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः ।
स्त्रीणां कटाक्षचाटू मधुपानं तल्पसंश्रयणम् ॥१४॥
मूलम् - १४
मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः ।
स्त्रीणां कटाक्षचाटू मधुपानं तल्पसंश्रयणम् ॥१४॥
विश्वास-प्रस्तुतिः - १५
परिरम्भचुम्बनाधरदंशनखन्यासकण्ठकूजश् च ।
वस्त्राकर्षनवोढासम्भोगौ निधुवनारम्भः ॥१५॥
मूलम् - १५
परिरम्भचुम्बनाधरदंशनखन्यासकण्ठकूजश् च ।
वस्त्राकर्षनवोढासम्भोगौ निधुवनारम्भः ॥१५॥
विश्वास-प्रस्तुतिः - १६
सुरतं विपरीतरतं विपरीतरतानुकथनसुरतान्तौ ।
उषसि प्रियावलोकनम् अथ वनितानिष्क्रमो रतश्लाघा ॥१६॥
मूलम् - १६
सुरतं विपरीतरतं विपरीतरतानुकथनसुरतान्तौ ।
उषसि प्रियावलोकनम् अथ वनितानिष्क्रमो रतश्लाघा ॥१६॥
विश्वास-प्रस्तुतिः - १७
आलीनाम् इतरेतरकथा शुकालापलज्जमाना च ।
प्रत्यूषादित्योदयमध्याह्नास्तमयसायतिमिराणि ॥१७॥
मूलम् - १७
आलीनाम् इतरेतरकथा शुकालापलज्जमाना च ।
प्रत्यूषादित्योदयमध्याह्नास्तमयसायतिमिराणि ॥१७॥
विश्वास-प्रस्तुतिः - १८
दीपेन्दूदयरजनय आरम्भः कुसुमसमयस्य ।
कुसुमसमयो’स्य वासरतरुपिकमधुपा निदाघतद्वेशौ ॥१८॥
मूलम् - १८
दीपेन्दूदयरजनय आरम्भः कुसुमसमयस्य ।
कुसुमसमयो’स्य वासरतरुपिकमधुपा निदाघतद्वेशौ ॥१८॥
विश्वास-प्रस्तुतिः - १९
ग्रीष्मभवः शृङ्गारो दववह्निः प्रावृडारम्भः ।
वर्षा वार्षिकवारिदतटिनीदिनरात्रयः ॥१९॥
मूलम् - १९
ग्रीष्मभवः शृङ्गारो दववह्निः प्रावृडारम्भः ।
वर्षा वार्षिकवारिदतटिनीदिनरात्रयः ॥१९॥
विश्वास-प्रस्तुतिः - २०
शरदेतदीयह्रद्नी खञ्जनहेमन्ततत्तमस्विन्यः ।
हैमनहालिकपथिकौ शिशिरस् तद्ग्रामशस्यशर्माणि ॥२०॥
मूलम् - २०
शरदेतदीयह्रद्नी खञ्जनहेमन्ततत्तमस्विन्यः ।
हैमनहालिकपथिकौ शिशिरस् तद्ग्रामशस्यशर्माणि ॥२०॥
विश्वास-प्रस्तुतिः - २१
उच्चावचम् इति नवसप्तत्यधिकशतेन सरसवीचीनाम् ।
श्रीधरदासेन सतारचि शृङ्गारप्रवाहो’यम् ॥२१॥
मूलम् - २१

शृङ्गारप्रवाहः