विश्वास-प्रस्तुतिः - १३६६
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं माम् आलपतीत्य् अयं खल शठः कोपस् तयाप्य् आश्रितः ।
इत्य् अन्योन्यविलक्षदृष्टिचतुरे तस्मिन्न् अवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस् तु मुक्तस् तया ॥१३६६॥
मूलम् - १३६६

अमरोः (अमरु २०, कुवल्।, १८५)
विश्वास-प्रस्तुतिः - १३६७
परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥१३६७॥
मूलम् - १३६७

तस्यैव (अमरु २१, स्भ् १६०८, सू।मु। ५८।१)
विश्वास-प्रस्तुतिः - १३६८
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस् तांश् च दिवसान्
न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥१३६८॥
मूलम् - १३६८

तस्यैव । (अमरु ३८, सु।र। ६९७, स्भ् ११४१, शा।प। ३५४५, सू।मु। ८४।१, रस्क् २।२६३च्)
विश्वास-प्रस्तुतिः - १३६९
श्लिष्टः कण्ठे किम् इति न मया मूढया प्राणनाथश्
चुम्बत्य् अस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती
पश्चात् तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥१३६९॥
मूलम् - १३६९

तस्यैव । (अमरु ५६, स्व् २१४३)
विश्वास-प्रस्तुतिः - १३७०
यावत् त्वच्चरितं प्रसङ्गत इव प्रस्तौमि तावत् त्वया
वन्दे तान् अहम् इत्य् उदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः ।
तद् यावच् च रुषेव दोषम् अपि ते पृच्छामि नाभाष्य मां
निःश्वासैः कियद् अंशुभिश् च कियद् आख्यातं तवागस्तया ॥१३७०॥
मूलम् - १३७०

गोतिथीयदिवाकरस्य ।
इति श्रीधरदासकृते सदुक्तिकर्णामृते द्विईत्ये’स्मिन्
मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहो’यम् ।
इति श्रीमहामाण्डलिकश्रीधरदासकृते सदुक्तिकर्णामृते
शृङ्गारप्रवाहो नाम द्वितीयः ।
वीचयः १७९ । श्लोकाः ८९५ ।
ओ)०(ओ
सदुक्तिकर्णामृतम्