१७८ शिशिरसुखम्

विश्वास-प्रस्तुतिः - १३६१

द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर् ज्वलत्य् उपरि तूलपटो गरीयान् ।
अङ्के’नुकूलम् अनुरागवशात् कलत्रम्
इत्थं करोति किम् असौ स्वपतस् तुषारः ॥१३६१॥

मूलम् - १३६१

द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर् ज्वलत्य् उपरि तूलपटो गरीयान् ।
अङ्के’नुकूलम् अनुरागवशात् कलत्रम्
इत्थं करोति किम् असौ स्वपतस् तुषारः ॥१३६१॥

बाणस्य । (स्व् १८५३, शा।प। ३९४०)

विश्वास-प्रस्तुतिः - १३६२

उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥

मूलम् - १३६२

उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १३६३

मसृणघुसृणालेपस् तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूम् अहुताशनः ।
शिशिरसमये यद्य् एतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस् तव लाञ्छनम् ॥१३६३॥

मूलम् - १३६३

मसृणघुसृणालेपस् तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूम् अहुताशनः ।
शिशिरसमये यद्य् एतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस् तव लाञ्छनम् ॥१३६३॥

शङ्करस्य ।

विश्वास-प्रस्तुतिः - १३६४

सद्यो धूपितम् उत्प्रदीपम् अभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच् चेतद् विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥

मूलम् - १३६४

सद्यो धूपितम् उत्प्रदीपम् अभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच् चेतद् विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥

विरिञ्चेः ।

विश्वास-प्रस्तुतिः - १३६५

चूडागर्भनिवेशिदामविकलं मुक्ताफलैर् भूषणैः
स्त्रीणां कुङ्कुमपिच्छिलाः स्तनभुवो गूढोदरं मन्दिरम् ।
द्वित्रास् तूलपटाः प्रसर्पदगुरुग्रामाश् च धूमोद्गमाः
सम्भोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥१३६५॥

मूलम् - १३६५

राजशेखरस्य । (बा।रा। ५।३६)