१७७ शिशिरशस्यानि

विश्वास-प्रस्तुतिः - १३५६

माषीणं मुषितं यवेषु यवसश्यामच्छविः शीर्यते
ग्रामान्ताश् च मधूकधूसरभुवः स्मेरं यवानीवनम् ।
पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिद्ध्यन्ति सिद्धार्थकाः
स्निग्धाः वास्तुकवास्तवः स्तवकितस्तम्बा च कुस्तुम्बरी ॥१३५६॥

मूलम् - १३५६

शुभाङ्कस्य । (सु।र। ३२१, शुभाङ्गस्य)

विश्वास-प्रस्तुतिः - १३५७

सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर्
उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो
निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षयष्ट्यो रसम् ॥१३५७॥

मूलम् - १३५७

वाचस्पतेः (सु।र। ३१६)

विश्वास-प्रस्तुतिः - १३५८

ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास् तर्कय बालवानरवधूहस्ताङ्गुलीलब्धिम
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥१३५८॥

मूलम् - १३५८

ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास् तर्कय बालवानरवधूहस्ताङ्गुलीलब्धिम
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥१३५८॥

वसुकल्पदत्तस्य

विश्वास-प्रस्तुतिः - १३५९

सिद्धार्थयष्टिषु यथोदयहीयमान
सन्तानबद्धफलसूचितपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानम् उपादधाति ॥१३५९॥

मूलम् - १३५९

सिद्धार्थयष्टिषु यथोदयहीयमान
सन्तानबद्धफलसूचितपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानम् उपादधाति ॥१३५९॥

लक्ष्मीधरस्य । (सु।र। ११८४, कस्यचित्)

विश्वास-प्रस्तुतिः - १३६०

यवानीवल्लीभिः कपिशहरिताभिर् दिशि दिशि
श्रयन्ते सीमानः किम् अपि कमनीयत्वम् अधुना ।
प्रथन्ते प्लक्षाणाम् अपि च कुटिलाः काननभुवां
विलीनाशाबन्धाः शुकशिशुकतुण्डच्छविमुषः ॥१३६०॥

मूलम् - १३६०

यवानीवल्लीभिः कपिशहरिताभिर् दिशि दिशि
श्रयन्ते सीमानः किम् अपि कमनीयत्वम् अधुना ।
प्रथन्ते प्लक्षाणाम् अपि च कुटिलाः काननभुवां
विलीनाशाबन्धाः शुकशिशुकतुण्डच्छविमुषः ॥१३६०॥

भूषणस्य ।