१७१ हेमन्तः

विश्वास-प्रस्तुतिः - १३२६

यात्रालग्नं शिशिरमरुतां बान्धवः कुन्दलक्ष्याः
कालं सो’यं कमलसरसां सम्पदः कालभूतः ।
निद्राव्याजाज् जडिमविधुरा यत्र गाढे हिमर्तौ
रामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥१३२६॥

मूलम् - १३२६

कस्यचित् । (सु।र। २९३)

विश्वास-प्रस्तुतिः - १३२७

गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना
गोपान् गोगर्भिनीनां सुखयति बहलो रात्रिरोमन्थबाष्पः ।
प्रातः पृष्ठावगाढप्रथमरविरुचिर् ग्रामसीमोपशल्ये
शेते सिद्धार्थपुष्पच्छदनिचितहिमक्लिन्नपक्ष्मा महोक्षः ॥१३२७॥

मूलम् - १३२७

योगेश्वरस्य । (सु।र। २९७)

विश्वास-प्रस्तुतिः - १३२८

दिग्भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायते
प्रालेयैः पिहितप्रभो दिनपतिर् मन्दो’पि मन्दायते ।
भर्तुर् मान्द्यशुचेव हन्त दिवसः क्षीणो’प्य् अयं क्षीयते
तत्सङ्कोचनिरर्गलेव रजनी दीर्घापि दीर्घायते ॥१३२८॥

मूलम् - १३२८

लक्ष्मीधरस्य ।

विश्वास-प्रस्तुतिः - १३२९

पाकं यत्र न याति पाणिजभ्दिआ यत्रातिशीतार्तिभिर्
मानच्छेदनिवेदनं रतिकलावृत्तिक्षमा यत् क्षपा ।
जारन्यस्तरदच्छदव्रणसमाधानाय यन् मारुतस्
ते’मी सन्ततकूटक्ÿप्तकुलटामोदा मुदे वासराः ॥१३२९॥

मूलम् - १३२९

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - १३३०

उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः
पक्षासम्भववेपमानतनवः प्रोड्डीय किञ्चिन् मुहुः ।
अन्योन्याक्षमिणः शरारिशिशवः प्रातर् नदीरोधसि
प्रालेयाम्बु पिबन्ति वीरणदलद्रोणी प्रणालीस्रुतम् ॥१३३०॥

मूलम् - १३३०

कस्यचित् । (सु।र। ११५१)