विश्वास-प्रस्तुतिः - १३११
यद्यप्य् अहं शशिमुखि विमलाम्बरश्रीर्
बन्दूकपुष्परुचिराधरपल्लवापि ।
धिङ् मां तथापि गलितोरुपयोधरत्वाद्
इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥१३११॥
मूलम् - १३११
यद्यप्य् अहं शशिमुखि विमलाम्बरश्रीर्
बन्दूकपुष्परुचिराधरपल्लवापि ।
धिङ् मां तथापि गलितोरुपयोधरत्वाद्
इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥१३११॥
मनोविनोदस्य । (सु।र। २६७)
विश्वास-प्रस्तुतिः - १३१२
वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखा
निदानीं सीमानं प्रति विहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिविडनीडा विटपिनः
शिवाभिर् वल्मीकाः खरनखरखातोदरमृदः ॥१३१२॥
मूलम् - १३१२
वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखा
निदानीं सीमानं प्रति विहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिविडनीडा विटपिनः
शिवाभिर् वल्मीकाः खरनखरखातोदरमृदः ॥१३१२॥
शतानन्दस्य । (सु।र। २८५)
विश्वास-प्रस्तुतिः - १३१३
तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः ।
तोयं प्रसीदति मुनेर् इव धर्मचिन्ता
कामी दरिद्र इव शोषम् उपैति पङ्कः ॥१३१३॥
मूलम् - १३१३
तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः ।
तोयं प्रसीदति मुनेर् इव धर्मचिन्ता
कामी दरिद्र इव शोषम् उपैति पङ्कः ॥१३१३॥
भासस्य । (सु।र। २७६, स्व् १८२१, शा।प। ३९०७, सू।मु। ६२।३)
विश्वास-प्रस्तुतिः - १३१४
कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः
खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् ।
पद्मानि श्वसितस्य सौरभम् अभिद्रुह्यन्ति वामभ्रुवाम्
अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥१३१४॥
मूलम् - १३१४

लक्ष्मीधरस्य ।
विश्वास-प्रस्तुतिः - १३१५
वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदयुक्तः शरदमलपटुर् मेदिनीचन्द्र चन्द्रश्
चन्द्राङ्कः शारदस् ते जयकृद् उपनतो विद्विषां कालकालः ॥१३१५॥
मूलम् - १३१५

वामनस्य ।