१६५ वर्षादिवसः

विश्वास-प्रस्तुतिः - १२९६

तान्य् एतानि शिखण्डिताण्डवगुरून् अम्भोधरान् अम्बरे
तन्वानानि दिनानि नूनम् अमृतस्यन्दीनि वन्दामहे ।
उद्गाढा नवनीलनीरजदृशाम् अत्यन्तम् आयासिनो
भिद्यन्ते स्वयम् एव येषु विषमा मानग्रहग्रन्थयः ॥१२९६॥

मूलम् - १२९६

कस्यचित् ।

विश्वास-प्रस्तुतिः - १२९७

हस्तप्राप्यदिशः प्रगाढजलदप्राग्मारसङ्कोचित
व्योमानः पतयालुभिर् धनरसैर् आकीर्णभूमण्डलाः ।
अद्योद्दामनदन् नवाम्बुदचयप्रच्छन्नकीर्णोदर
क्रूराः पान्थवधूभिर् अद्भुतम् अमी सोढाः कथं वासराः ॥१२९७॥

मूलम् - १२९७

विश्वास-प्रस्तुतिः - १२९८

एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो
विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः ।
आसन्नप्रसवालसां सहचरीम् आलोक्य नीडार्थिनीं
चञ्चुप्रान्तकिलिञ्जसञ्चयपरः काको’पि येष्व् आकुलः ॥१२९८॥

मूलम् - १२९८

रन्तिदेवस्य ।

विश्वास-प्रस्तुतिः - १३००

एते कर्बुरितातपास् तत इतः सञ्जायमानाम्बुद
च्छेदैः सम्प्रति केतकीदलमिलद्दर्भातिथेयोदयाः ।
ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो
गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥१३००॥

मूलम् - १३००