१६४ वर्षानदी

विश्वास-प्रस्तुतिः - १२९१

दात्य् ऊहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्
कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च ।
तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलुप
व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥१२९१॥

मूलम् - १२९१

दात्य् ऊहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्
कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च ।
तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलुप
व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥१२९१॥

योगेश्वरस्य । (सु।र। २२१)

विश्वास-प्रस्तुतिः - १२९२

एताः पङ्किलकूलरूढनलदस्तम्भाः क्वणत्कम्बवः
क्रीडत्कर्कटचक्रवालविलसज्कम्बालतोयाबिलाः ।
हृल्लेखं जनयन्त्य् अनूपसरितां उत्तुण्डगण्डूपदो
त्कीर्णोद्गीर्णा मृदर्बुदस्थपुटितप्रान्तास् तटीभूमयः ॥१२९२॥

मूलम् - १२९२

एताः पङ्किलकूलरूढनलदस्तम्भाः क्वणत्कम्बवः
क्रीडत्कर्कटचक्रवालविलसज्कम्बालतोयाबिलाः ।
हृल्लेखं जनयन्त्य् अनूपसरितां उत्तुण्डगण्डूपदो
त्कीर्णोद्गीर्णा मृदर्बुदस्थपुटितप्रान्तास् तटीभूमयः ॥१२९२॥

परमेश्वरस्य । (सु।र। २५४)

विश्वास-प्रस्तुतिः - १२९३

विरतरजसां स्फूर्जत्सर्जप्रसूनसुगन्धिनी
मदवशलसत्केकिक्वाणप्रणादितसानुनी ।
अपहृतवनोद्देशोन्मेषास् तरङ्गितरंहसो
विदधति तटे भूभृन् नद्यः क्वणज्जलरङ्कुणी ॥१२९३॥

मूलम् - १२९३

विरतरजसां स्फूर्जत्सर्जप्रसूनसुगन्धिनी
मदवशलसत्केकिक्वाणप्रणादितसानुनी ।
अपहृतवनोद्देशोन्मेषास् तरङ्गितरंहसो
विदधति तटे भूभृन् नद्यः क्वणज्जलरङ्कुणी ॥१२९३॥

कापालिकस्य ।

विश्वास-प्रस्तुतिः - १२९४

निदाघद्राघीयः क्लमकमठकण्ठाकुलभिदाम्
इदानीम् उद्देशाः प्रतिपुलिनम् अर्घन्ति सरिताम् ।
समन्ताद् उन्मीलन् नवनिचुलकुज्जेषु रभसा
दवस्फारक्रीडासुखमुखरदात्यूहसुहृदः ॥१२९४॥

मूलम् - १२९४

निदाघद्राघीयः क्लमकमठकण्ठाकुलभिदाम्
इदानीम् उद्देशाः प्रतिपुलिनम् अर्घन्ति सरिताम् ।
समन्ताद् उन्मीलन् नवनिचुलकुज्जेषु रभसा
दवस्फारक्रीडासुखमुखरदात्यूहसुहृदः ॥१२९४॥

हरेः ।

विश्वास-प्रस्तुतिः - १२९५

इह गुरुजलभारपूर्णगर्भाः
प्रदरदरीभ्रमभूरिभीमवेगाः ।
तटकटकनियुध्यमानवेणी
द्विगुणमहारवभैरवास् तटिन्यः ॥१२९५॥

मूलम् - १२९५

इह गुरुजलभारपूर्णगर्भाः
प्रदरदरीभ्रमभूरिभीमवेगाः ।
तटकटकनियुध्यमानवेणी
द्विगुणमहारवभैरवास् तटिन्यः ॥१२९५॥

त्रिपुरारेः ।