१६३ वर्षामेघः

विश्वास-प्रस्तुतिः - १२८६

त्रैलोक्याधिपतौ फणीन्द्रशयने निद्राति दैत्यद्रुहि
प्राप्य प्रावृषम् अन्धकाररजनीं प्रत्याशम् आयोजिताः ।
विद्युद्दीधितिदीपिकाभिर् अभितः संशोधयन्तो दिशां
भित्तीर् जाग्रति यामिका इव धनुष्मन्तः स्वनन्तो घनाः ॥१२८६॥

मूलम् - १२८६

ॐकण्ठस्य ।

विश्वास-प्रस्तुतिः - १२८७

क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बुसरितां
प्रताप्योर्वीं वनतरुगहनम् उत्साद्य सकलम् ।
क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास्
तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥१२८७॥

मूलम् - १२८७

ॐकण्ठस्य । (सु।र। २५१ कस्यचित्, शा।प। ३८६९, सू।मु। ६१।१८ बोथ् पाणिनेः)

विश्वास-प्रस्तुतिः - १२८८

निपीय स्वच्छन्दं जलम् उदरपूरं भववशाद्
विषण्णो’तिक्लेशात् क्षितिधरशिलालम्बितवपुः ।
मुहुर् विद्युद् वल्लीवलितरसनो निस्वनमिषाद्
भृशारब्धोद्गारं वमति जलभारं जलधरः ॥१२८८॥

मूलम् - १२८८

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - १२८९

व्याप्यान्तरीक्षककुभाव नुभूभृदग्रं
सान्द्रान्धकारगहनासु निशासु गर्जन् ।
संवीक्षते विरहिणः क इह ध्रियन्ते
वर्षासु विद्युदुरुदीपिकयेव मेघः ॥१२८९॥

मूलम् - १२८९

व्याप्यान्तरीक्षककुभाव नुभूभृदग्रं
सान्द्रान्धकारगहनासु निशासु गर्जन् ।
संवीक्षते विरहिणः क इह ध्रियन्ते
वर्षासु विद्युदुरुदीपिकयेव मेघः ॥१२८९॥

लोष्टसर्वज्ञस्य ।

विश्वास-प्रस्तुतिः - १२९०

असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव
ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव ।
अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं
घनैर् बद्धव्यूहैः किम् इदम् इति घोरं व्यवसितम् ॥१२९०॥

मूलम् - १२९०

कस्यचित् । (सु।र। २६२)