१६२ वर्षाः

विश्वास-प्रस्तुतिः - १२८१

कामं कूले नदीनाम् अनुगिरि महिषीयूथनीडोपकण्ठे
गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोला बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथञ्चित्
कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥१२८१॥

मूलम् - १२८१

योगेश्वरस्य ।

विश्वास-प्रस्तुतिः - १२८२

एतस्मिन् मदजर्जरैर् उपचिते कम्बूरवाडमबरैः
स्तैमित्यं मनसो दिशत्य् अनिभृतं धाराधरे मूर्च्छति ।
उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन्
मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥१२८२॥

मूलम् - १२८२

वातोकस्य । (सु।र। २२९)

विश्वास-प्रस्तुतिः - १२८३

स्मरविजयपदाङ्कं मत्तदात्यूहकण्ठ
स्फुटितमधुरकूजा गीतयः सञ्चरन्ति ।
अपि च विततबर्हच्छत्रम् उद्भूतपत्रं
नटति घननिनादोत्कण्टितो नीलकण्ठः ॥१२८३॥

मूलम् - १२८३

स्मरविजयपदाङ्कं मत्तदात्यूहकण्ठ
स्फुटितमधुरकूजा गीतयः सञ्चरन्ति ।
अपि च विततबर्हच्छत्रम् उद्भूतपत्रं
नटति घननिनादोत्कण्टितो नीलकण्ठः ॥१२८३॥

भवानन्दस्य ।

विश्वास-प्रस्तुतिः - १२८४

व्याप्तं वारिधरैर् अकाण्डमुदितैः कृत्स्नं वियन्मण्डलं
नाक्ष्णोर् वर्त्मनि शीतदीधितिर् असौ नापि त्विषाम् ईश्वरः ।
भग्नाव् एव मलीमसैः किम् अधुना निर्मातुम् अर्थान्तरं
यत् सान्द्रं करकाः पतन्ति यद् अमी मुञ्चन्ति विद्युच्छटाः ॥१२८४॥

मूलम् - १२८४

वातोकस्य ।

विश्वास-प्रस्तुतिः - १२८५

सामोदा बकुलैः कदम्बमुकुलैः प्रीत्येव रोमाञ्चिता
नीरन्ध्रं पिहिताः प्योदपटलैः श्यामोत्तरीय इव ।
दूरीकृत्य च नूपुराव् इव रिपून् हंसान् समुत्कूजतो
याताः क्वाप्य् अभिसारिका इव दिशो मेघागमे सोत्सुकाः ॥१२८५॥

मूलम् - १२८५

कस्यचित् ।