१५६ वसन्तभ्रमरः

विश्वास-प्रस्तुतिः - १२५१

आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां
काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां
धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥१२५१॥

मूलम् - १२५१

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १२५२

पिकत्रोटीदात्रत्रुटितसहकाराग्रमुकुल
स्रुतक्षीरक्षीवप्रसृतपवनान्दोलतरला ।
इदानीं वासन्तीदलितकुसुमामोदमुदित
भ्रमद्भृङ्गश्रेणी रणरणकम् अन्तर् वितनुते ॥१२५२॥

मूलम् - १२५२

कालिदासनन्दिनः ।

विश्वास-प्रस्तुतिः - १२५३

निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झितरसे
वनेष्व् अम्भोजानाम् अविकृतसुखेषु प्रतिहताः ।
इदानीं चूतानां मुकुलमधुषु प्रेमसरसा
नवीनेष्व् आकूतं दधति परिगाढं मधुलिहः ॥१२५३॥

मूलम् - १२५३

नवकरस्य ।

विश्वास-प्रस्तुतिः - १२५४

मल्लिकामुकुले भाति गुञ्जन्मत्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खम् आपूरयन्न् इव ॥१२५४॥

मूलम् - १२५४

मल्लिकामुकुले भाति गुञ्जन्मत्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खम् आपूरयन्न् इव ॥१२५४॥

कस्यचित् । (सा।द। ४।९, शा।प। ३७८६)

विश्वास-प्रस्तुतिः - १२५५

अविरलपरागसैकतमकरन्दतरङ्गिणीम् अनुवनान्तम् ।
पिकयुवतिजानुदध्नीं गाहन्ते मधुपयोषितस् तृषिताः ॥१२५५॥

मूलम् - १२५५

अविरलपरागसैकतमकरन्दतरङ्गिणीम् अनुवनान्तम् ।
पिकयुवतिजानुदध्नीं गाहन्ते मधुपयोषितस् तृषिताः ॥१२५५॥

आवन्तिकजह्नोः ।