१५५ वसन्तकोकिलः

विश्वास-प्रस्तुतिः - १२४६

एते नूतनचूतकोरकघनध्वानातिरेकीभवत्
कण्ठध्वानजुषो हरन्ति हृदयं मध्ये वनं कोकिलाः ।
येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल
ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इव ॥१२४६॥

मूलम् - १२४६

कस्यचित् । (सु।र। १७१)

विश्वास-प्रस्तुतिः - १२४७

अद्योन्मीलन्मलयपवनोद्धूतचूताङ्कुराग्र
ग्रासास्वादाद् अधिकमधुरैर् उच्चरद्भिर् निनादैः ।
क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां
होतुं प्राणान् ऋचम् इव पिकः सामिधेनीम् अधीते ॥१२४७॥

मूलम् - १२४७

हरेः ।

विश्वास-प्रस्तुतिः - १२४८

यश् चूताङ्कुरकन्दलीकवलनात् कर्णामृतस्राविणीं
छायामात्रपरिग्रहेण विदधे पाञ्चेषवीम् अस्रताम् ।
ताम्यत् तालुविटङ्कसङ्कटदरीसञ्चारतः पञ्चमः
सो’यं कोकिलकामिनीगलविलाद् आमूलम् उन्मूलति ॥१२४८॥

मूलम् - १२४८

बिल्हणस्य । (व्च्। ७।७६)

विश्वास-प्रस्तुतिः - १२४९

यः शृङ्गाररसायनं मृगदृशां वैरागय्चिन्ताज्वरः
शान्त्युद्वासनडिण्डिमः स्मरगुरोस् तत्त्वोपदेशाक्षरम् ।
उद्भूतस्मरगौरवज्वरभराक्रान्ताध्वनीनाङ्गना
चैतन्यत्रुटिकार्मणं विजयते रागः पिके पञ्चमः ॥१२४९॥

मूलम् - १२४९

कस्यचित् ।

विश्वास-प्रस्तुतिः - १२५०

ॐकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर
स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
चित्ताकर्षणसाध्यसिद्धिर् असतीनेत्रस्य कर्णज्वरः
पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥१२५०॥

मूलम् - १२५०

ध्वनिः ।