१५४वसन्ततरवः

विश्वास-प्रस्तुतिः - १२४१

मिथः क्रीडालोलभ्रमरभरभग्नाङ्कुररस
प्रेसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतो’प्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः
प्रयच्छत्य् उन्मादान् अहह सहकारद्रुमयुवा ॥१२४१॥

मूलम् - १२४१

कस्यचित् । (सु।र। १८७)

विश्वास-प्रस्तुतिः - १२४२

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर्
वाह्लीकीदशनव्रणारुणतरैः पत्रैर् अशोकोर्चितः ।
भृङ्गीलङ्घितकोटि किंशुकम् इदं किञ्चिद् विवृन्तायते
माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् वृत्तैव काचिल् लिपिः ॥१२४२॥

मूलम् - १२४२

राजशेखरस्य । (वि।शा।भ। १।२५, सु।र। १६५)

विश्वास-प्रस्तुतिः - १२४३

वह्निर् मन्ये हिमजलभयात् संश्रितः किंशुकेषु
श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः ।
सन्तापार्थं कथम् इतरथा पान्थसीमन्तिनीनां
पुष्पव्याजाद् विसृजति शिखाश्रेणिम् उद्गाढशोणाम् ॥१२४३॥

मूलम् - १२४३

कस्यचित् । (सु।र। १७६ पौतायनेः)

विश्वास-प्रस्तुतिः - १२४४

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः
शिखानाम् आबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं
समन्तान् निर्याति स्फुटसुभगरागं किसलयम् ॥१२४४॥

मूलम् - १२४४

वामनस्य ।

विश्वास-प्रस्तुतिः - १२४५

परागैर् आदिग्धाः परिमिलितपिष्टातकनिभैर्
मरुल्लोलच्छाखं मधुपरवगीतं विदधतः ।
पलाशैः काश्मीरारुणवसनकल्पैर् निवसिता
द्रुमा राजन्त्य् एते मधुदिवसरम्योत्सवभृतः ॥१२४५॥

मूलम् - १२४५

वसन्तसेनस्य ।