१५३ वसन्तवासरः

विश्वास-प्रस्तुतिः - १२३६

आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी
स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत् प्रगल्भं महः ।
अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर्
आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥१२३६॥

मूलम् - १२३६

सङ्घश्रीयः । (सु।र। १५२)

विश्वास-प्रस्तुतिः - १२३७

मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः
संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसिर् निषण्णालिभिः ।
चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया
वर्धन्ते च विवर्धयन्ति च मुहुस् ते’मी स्मरं वासराः ॥१२३७॥

मूलम् - १२३७

(कस्यचित्; सु।र। १६१)

विश्वास-प्रस्तुतिः - १२३८

एते सम्प्रति वैमनस्यम् अनिशं निःशङ्कम् आतन्वते
कान्तारस्थलपद्मिनीपरिमलैर् आनन्दितेन्दिन्दिराः ।
उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल
ध्वानाकर्णनकान्दिशीकपथिकावस्कन्दिनो वासराः ॥१२३८॥

मूलम् - १२३८

(योगेश्वरस्य)

विश्वास-प्रस्तुतिः - १२३९

धिन्वन्त्यमू… मदमूर्च्छदलिध्वनीनि
धूताध्वनी…हृदयानि मधोर् दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्द
सौरभ्यसौहृदसगर्वसमीरणानि ॥१२३९॥

मूलम् - १२३९

धिन्वन्त्यमू… मदमूर्च्छदलिध्वनीनि
धूताध्वनी…हृदयानि मधोर् दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्द
सौरभ्यसौहृदसगर्वसमीरणानि ॥१२३९॥

(कस्यचित्)

विश्वास-प्रस्तुतिः - १२४०

स्तोकस्तोकनिवर्तमानतुहिनोन्मीलन्नवाम्भोजिनी
सङ्क्रान्तैर् अलिभिर् मुखेषु ककुभां क्ÿप्तालकश्रेणयः ।
तत्तन्मन्मथबन्धुवार्तिकपिकप्रारब्धबीजाङ्कुर
व्याख्यातक्षुभिताध्वनीनमनसो धिन्वन्त्य् अमी वासराः ॥१२४०॥

मूलम् - १२४०

(हरेः)