विश्वास-प्रस्तुतिः - १२३१
जम्बूनां कुसुमोदरेष्व् अतिरसादाबद्धपानोत्सवाः
कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च ।
एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां
पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥१२३१॥
मूलम् - १२३१

(राजशेखरस्य; सु।र। १५७, सू।मु। १०९।२३ वसुकस्य)
विश्वास-प्रस्तुतिः - १२३२
अङ्कुरिते पल्लविते कोरकिते
विकसिते च सहकरे ।
अङ्कुरितः पल्लवितः कोरकितो
विकसितश् च मदनो’सौ ॥१२३२॥
मूलम् - १२३२
अङ्कुरिते पल्लविते कोरकिते
विकसिते च सहकरे ।
अङ्कुरितः पल्लवितः कोरकितो
विकसितश् च मदनो’सौ ॥१२३२॥
(कस्यचित्; सु।र। १८८)
विश्वास-प्रस्तुतिः - १२३३
अमीषाम् आरूढप्रसवविवराणां मधुलिहां
ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।
द्रुमालीनां यूनोर् मन इव सरागं किसलयं
परागः पुष्पाणां पतति मदनस्येव विशिखः ॥१२३३॥
मूलम् - १२३३

(वसन्तदेवस्य)
विश्वास-प्रस्तुतिः - १२३४
लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु
स्थायित्वं कलकण्ठकण्ठकुहरेष्व् आसेवते पञ्चमः ।
एकच्छत्रजगत्त्रयार्जनरुचेर् देवस्य शृङ्गारिणश्
चैत्रश् चित्रम् अकाण्ड एव समभूत् त्रैलोक्यमल्लो भटः ॥१२३४॥
मूलम् - १२३४

(बिल्हणस्य; व्च् ७।६४)
विश्वास-प्रस्तुतिः - १२३५
वापी दन्तुरितोदरा कमलिनी पत्राङ्कुरग्रन्थिभिश्
चूतानां कलिकामिलन् मधुलिहां कापि स्थितिर् वर्तते ।
किं चान्यत् कुसुमायुधो’द्य भगवान् धत्ते सगर्वं धनुर्
ज्याम् उन्मार्ष्टि च पञ्चभिश् च विशिखैर् जेतुं जगद् वाञ्छति ॥१२३५॥
मूलम् - १२३५

(वीर्यमित्रस्य; सु।र। १७३ अभिनन्दस्य)