विश्वास-प्रस्तुतिः - १२२६
गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये’ङ्कुरं पल्लवा
वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णुदिवसैर् द्वित्रैर् मनोजन्मनो
देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः ॥१२२६॥
मूलम् - १२२६

(राजशेखरस्य; वि।शा।भ। १।२३, सु।र। १६६)
विश्वास-प्रस्तुतिः - १२२७
अतीता श्रीतार्तिः प्रसरति शनैर् उष्मकणिका
दिनानि स्फायन्ते रविर् अपि अथं मन्थरयति ।
हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः
शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥१२२७॥
मूलम् - १२२७

(साम्पीकस्य)
विश्वास-प्रस्तुतिः - १२२८
निद्राशेषनिमीलितेक्षणतया प्राप्ते वसन्तोद्यमे
हस्तामर्षवशाद् असौ निजधनुः पञ्चेषुर् अन्विष्यति ।
चूताः कोरकगर्भनिर्भरदरोद्भिन्नस्फुरद्ग्रन्थयो
यात्यायाति च काकली पिकवधूकण्ठोपकण्ठं मुहुः ॥१२२८॥
मूलम् - १२२८

प्राज्ञभुतनाथस्य ।
विश्वास-प्रस्तुतिः - १२२९
एकद्वेषु रसालशाखिषु मनाग् उन्मीलितं कुड्मलैः
कर्णाकर्णिकया मिथः कथम् अमी घूर्णन्ति विश्वेध्वगाः ।
द्वित्रैः क्वापि किल श्रुताश्रुतम् अपि स्पष्टान्य् अपुष्टारुतं
विष्वङ् मूर्च्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥१२२९॥
मूलम् - १२२९

भट्टशालीयपीताम्बरस्य ।
विश्वास-प्रस्तुतिः - १२३०
यातं मानैर् वधूनाम् इव दरशिथिलग्रन्थिभिः पूर्वपत्रैर्
जातो’पि क्वापि बालामदन इव बहिर् नाङ्कुरो व्यक्तिम् एति ।
आगारे नागराणाम् अपि विहितबहुप्रार्थनाः कण्ठसीमां
नीत्वा नीत्वा नवोढा इव वचनम् अमूः कोकिलाः कुण्ठयन्ति ॥१२३०॥
मूलम् - १२३०

(आचार्यगोपीकस्य)