१४९ चन्द्रोदयः

विश्वास-प्रस्तुतिः - १२१६

अयम् उदयति चन्द्रश् चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर् यस्य पादैर्
जगद् अमलमृणालीपञ्जरस्थं विभाति ॥१२१६॥

मूलम् - १२१६

अयम् उदयति चन्द्रश् चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर् यस्य पादैर्
जगद् अमलमृणालीपञ्जरस्थं विभाति ॥१२१६॥

मधोः ।

विश्वास-प्रस्तुतिः - १२१७

यस् त्रैलोक्यजितः स्मरस्य किम् अपि क्रीडातडागं महद्
यश् चाभोगभृतो भुवः प्रकटिताकारार्पणो दर्पणः ।
सो’यं सुन्दरि मन्दराद्रिमथितक्षीरोदसारोच्चयश्
चन्द्रः कुङ्कुमपङ्कपिण्डलडहच्छायः समुद्गच्छति ॥१२१७॥

मूलम् - १२१७

राजशेखरस्य ।

विश्वास-प्रस्तुतिः - १२१८

असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्
कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
कटाक्षेभ्यो बिभ्यन् निभृत इव चन्द्रो’भ्युदयते ॥१२१८॥

मूलम् - १२१८

तस्यैव । (सु।र। ९०९)

विश्वास-प्रस्तुतिः - १२१९

देवः प्राचीम् इदानीम् अयम् उपचिनुते पञ्चबाणस्य सो’यं
बिभ्राणः शाणलीलाम् अमृतरुचिर् इमां लाक्षिकीभिः प्रभाभिः ।
किं चामुष्य प्रसङ्गान् निशितशरशिखाविस्फुरद्भिः स्फुलिङ्गैः
सन्ध्यारागच्छलेन च्छुरितम् इव तटव्योमचक्रं चकास्ति ॥१२१९॥

मूलम् - १२१९

हरेः ।

विश्वास-प्रस्तुतिः - १२२०

आशाः सन्तमसोपलेपमलिनाः पीयूषगौरैः करैर्
आलिम्पन्न् अयम् उद्गतैर् दिवम् इमां कर्पूरपूरं सृजन् ।
चन्द्रश् चन्द्रशिलैककुट्टिमम् अयं क्षोणीतलं कल्पयन्
पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥१२२०॥

मूलम् - १२२०

अनङ्गस्य ।