१४८ दीपः

विश्वास-प्रस्तुतिः - १२११

वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥

मूलम् - १२११

वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥

तैलपाटीयगाङ्गोकस्य ।

विश्वास-प्रस्तुतिः - १२१२

निर्वाणगोचरगतो’पि मुहुर् निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्य् एवम् आकलयितुं सकलं कलाविद्
उद्ग्रीविकाम् इव ददाति रतिप्रदीपः ॥१२१२॥

मूलम् - १२१२

निर्वाणगोचरगतो’पि मुहुर् निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्य् एवम् आकलयितुं सकलं कलाविद्
उद्ग्रीविकाम् इव ददाति रतिप्रदीपः ॥१२१२॥

कस्यचित् । (सु।र। ८५६)

विश्वास-प्रस्तुतिः - १२१३

बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढाम् उपगूढवन्तम् ।
विलोक्य जामातरम् एष दीपो
वातायते कम्पम् उपैति भीतः ॥१२१३॥

मूलम् - १२१३

बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढाम् उपगूढवन्तम् ।
विलोक्य जामातरम् एष दीपो
वातायते कम्पम् उपैति भीतः ॥१२१३॥

कस्यचित् । (सु।र। ८५७)

विश्वास-प्रस्तुतिः - १२१४

हनूमान् इव दीपो’यं दूरम् उल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥

मूलम् - १२१४

हनूमान् इव दीपो’यं दूरम् उल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १२१५

अतिपीतां तमोराजीं तनीयान् वोढुम् अक्षमः ।
वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् ॥१२१५॥

मूलम् - १२१५

अतिपीतां तमोराजीं तनीयान् वोढुम् अक्षमः ।
वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् ॥१२१५॥

कस्यचित् । (सु।र। ८५५)