विश्वास-प्रस्तुतिः - ११८६
अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम्
उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन्
कुपितकपिकपोलक्रोधताम्रस्तमांसि ॥११८६॥
मूलम् - ११८६
अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम्
उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन्
कुपितकपिकपोलक्रोधताम्रस्तमांसि ॥११८६॥
योगेश्वरस्य । (स।क।आ। १।१००, सा।द। उन्देर् ९।६, सु।र। ९७९)
विश्वास-प्रस्तुतिः - ११८७
शक्यार्चनः सुचिर् अमीक्षणपङ्कजेन
काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरन्न् अमरनायकपालितायां
देवो’भ्युदेति दिशि वासरबीजकोषः ॥११८७॥
मूलम् - ११८७
शक्यार्चनः सुचिर् अमीक्षणपङ्कजेन
काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरन्न् अमरनायकपालितायां
देवो’भ्युदेति दिशि वासरबीजकोषः ॥११८७॥
विष्णुहरेः । (सु।र। ९६८)
विश्वास-प्रस्तुतिः - ११८८
तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं
भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः ।
सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते
यान्त्य् अन्तस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥११८८॥
मूलम् - ११८८
तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं
भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः ।
सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते
यान्त्य् अन्तस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥११८८॥
शिखस्वामिनः । (सु।र। ९७६)
विश्वास-प्रस्तुतिः - ११८९
अपास्तस् ताराभिर् विधन इव कामी युवतिभिर्
मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
अयं प्राचीकर्णाभरणरचनाशोककुसुम
च्छटालक्ष्मीचौरः कलयति रविः पूर्वम् अचलम् ॥११८९॥
मूलम् - ११८९
अपास्तस् ताराभिर् विधन इव कामी युवतिभिर्
मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
अयं प्राचीकर्णाभरणरचनाशोककुसुम
च्छटालक्ष्मीचौरः कलयति रविः पूर्वम् अचलम् ॥११८९॥
विश्वास-प्रस्तुतिः - ११९०
रतिश्रमपरिस्खलत्समदसिद्धसीमन्तिनी
स्तनच्युतम् इवांशुकं विशदपद्मरागद्युति ।
अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण
त्वदीयदशनच्छदच्छविरुदेति बालातपः ॥११९०॥
मूलम् - ११९०
रतिश्रमपरिस्खलत्समदसिद्धसीमन्तिनी
स्तनच्युतम् इवांशुकं विशदपद्मरागद्युति ।
अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण
त्वदीयदशनच्छदच्छविरुदेति बालातपः ॥११९०॥
मुञ्जस्य ।