विश्वास-प्रस्तुतिः - ११८१
क्षुण्णान्य् एव तमांसि किन्तु दधति प्रौढि न सम्यग्दृशोर्
वासः संवृत्तम् एव किन्तु जहति प्राणेश्वरं नाबलाः ।
पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं
साकूतं रुतम् एव किन्तु सहसा झात्कृत्य नोड्डीयते ॥११८१॥
मूलम् - ११८१

वसुकल्पस्य । (सु।र। ९६५)
विश्वास-प्रस्तुतिः - ११८२
पत्यौ पात्रे कलानां व्रजति गतिवशाद् अस्तम् इन्दौ क्रमेण
क्रन्दन्ती पत्रिरावैर् विगलिततिमिरस्तोमधम्मिल्लभारा ।
प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः
प्रोन्मीलत्पूर्वसन्ध्याहुतभुजि रजनी पश्य देहं जुहोति ॥११८२॥
मूलम् - ११८२

योगेश्वरस्य । (सू।मु। ८२।३, सु।र। ९७०)
विश्वास-प्रस्तुतिः - ११८३
उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः
पीयूषद्युतिर् अच्छदर्पणतुलाम् आरोहति प्रस्थितः ।
कोकानां कृपयेव कुक्कुटरवैर् आहूयमाने रवौ
दिग् जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥११८३॥
मूलम् - ११८३

शुभाङ्कस्य ।
विश्वास-प्रस्तुतिः - ११८४
प्रालेयाम्भःशिशिरपवनापीयमानक्लमानां
कण्ठोपान्तस्तिमितनमितैकैकदोःकन्दलीनाम् ।
नानाक्रीडाजनितरजनीजागरेणोपनीते
निद्राभोगः स्थगयति दृशौ साम्प्रतं दम्पतीनाम् ॥११८४॥
मूलम् - ११८४

सुरभेः ।
विश्वास-प्रस्तुतिः - ११८५
ताराणां विरलो’धुना परिकरः स्मेरं नभो वर्तते
मञ्जिष्ठारसपाटलेन महसाक्रान्ता च पूर्वा ककुप् ।
किञ्चान्यत् स्मरजागरूकविहगद्वन्द्वस्य दुःखच्छिदो
मित्रस्यागमनं व्यनक्ति विसिनीनिद्रादरिद्रः क्षणः ॥११८५॥
मूलम् - ११८५

कामदेवस्य ।