१३८ नायिकानिष्क्रमणम्

विश्वास-प्रस्तुतिः - ११६१

विरामे यामिन्या उपकुचयुगोरूपजघनं
समालम्ब्य व्यस्ताञ्चलम् अलसम् उत्थाय शयनात् ।
हसित्वा सम्मुग्धं मधुरम् अवलोक्याथ शिथिलैर्
भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥११६१॥

मूलम् - ११६१

विरामे यामिन्या उपकुचयुगोरूपजघनं
समालम्ब्य व्यस्ताञ्चलम् अलसम् उत्थाय शयनात् ।
हसित्वा सम्मुग्धं मधुरम् अवलोक्याथ शिथिलैर्
भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥११६१॥

वासुदेवज्योतिषः ।

विश्वास-प्रस्तुतिः - ११६२

विरामे यामिन्या उपकुचयुगो रूपजघनं
समालम्ब्य व्यस्तां चलम् अलसम् उत्थाय शयनात् ।
हसित्वा सम्मुग्धं मधुरम् अवलोक्याथ शिथिलैर्
भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥११६२॥

मूलम् - ११६२

विरामे यामिन्या उपकुचयुगो रूपजघनं
समालम्ब्य व्यस्तां चलम् अलसम् उत्थाय शयनात् ।
हसित्वा सम्मुग्धं मधुरम् अवलोक्याथ शिथिलैर्
भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥११६२॥

कस्यापि ।

विश्वास-प्रस्तुतिः - ११६३

प्रत्यग्रदंशजनितश्वयथून् सलीलम्
अम्भोजकोमलकराङ्गुलिकोटिभागैः ।
बिम्बाधरान् मधुरसीत्कृति संस्पृशन्त्यः
कान्ताः प्रयान्ति दयितान्तिकतो’धुनैताः ॥११६३॥

मूलम् - ११६३

प्रत्यग्रदंशजनितश्वयथून् सलीलम्
अम्भोजकोमलकराङ्गुलिकोटिभागैः ।
बिम्बाधरान् मधुरसीत्कृति संस्पृशन्त्यः
कान्ताः प्रयान्ति दयितान्तिकतो’धुनैताः ॥११६३॥

रत्नाकरस्य ।

विश्वास-प्रस्तुतिः - ११६४

विदलितकुचपाणिजाङ्कलेखा
दरभिदुरोरुभरालसा कृशाङ्गी ।
उषसि निधुवनोपभोगजिह्मा
यदि गृहम् एति सखि बलाबलेन ॥११६४॥

मूलम् - ११६४

विदलितकुचपाणिजाङ्कलेखा
दरभिदुरोरुभरालसा कृशाङ्गी ।
उषसि निधुवनोपभोगजिह्मा
यदि गृहम् एति सखि बलाबलेन ॥११६४॥

योगोकस्य ।

विश्वास-प्रस्तुतिः - ११६५

निर्यान्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपां
गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्य् असन्तुष्टया ।
एकं भूमितले निधाय चरणं तल्पे प्रकल्प्यापरं
तन्वङ्ग्या परिवर्तिताङ्गलतया प्रेयांश् चिरं चुम्बितः ॥११६५॥

मूलम् - ११६५

कस्यापि । (स्व् २१९१, शा।प। ३७२८)