विश्वास-प्रस्तुतिः - ११५६
सम्भ्रान्त्या गलितस्रजं स्तनतटव्यस्तस्खलद्वाससो
बध्नन्त्याः शिथिलां झणत्कृतिमतीं काञ्चीं नितम्बस्थले ।
कामिन्याः सरसं निशान्तसमये वक्रा विलुप्ताञ्जना
नाधन्ये निपतन्ति पाठलरुचो निद्रालसा दृष्टयः ॥११५६॥
मूलम् - ११५६

कस्यचित् ।
विश्वास-प्रस्तुतिः - ११५७
उषसि निबिडयन्त्याः कुण्डलं केलिपर्या
विलविगलितमन्तः कर्णपालि प्रियायाः ।
सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः
सुकृतिभिर् अवलीढा लोचनाभ्यां मुखश्रीः ॥११५७॥
मूलम् - ११५७

रुद्रनन्दिनः ।
विश्वास-प्रस्तुतिः - ११५८
प्रियायाः प्रत्यूषे गलितकवरीबन्धनविधाव्
उदञ्च्द्दोर्वल्लीदरचलितलोलाञ्चलम् उरः ।
घनाकूते पश्यत्य् अथ मयि समन्दाक्षहसितं
नमन्त्यास् तद्रूपं यदि लिखितुम् ईशो मनसिजः ॥११५८॥
मूलम् - ११५८

धोयीकस्य ।
विश्वास-प्रस्तुतिः - ११५९
मसृणमसृणं प्रेयः प्रातर् निवार्य वपुः स्वकं
तद् अनु च तिरोधाय स्वैरं रतोत्सवमण्डनम् ।
त्रिचतुरपदं गत्वा तस्मान् निवर्तितकन्धरं
स्नपयति दृशा पुण्यात्मानं कम् अप्य् उषसि प्रिया ॥११५९॥
मूलम् - ११५९

शतानन्दस्य ।
विश्वास-प्रस्तुतिः - ११६०
अस्याः पाटलपाणिजाङ्कितम् उरो निद्राकषाये दृशौ
निर्धौतो’धरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर्
एभिः कामशरैस् तदद्भुतम् अभूद् यन् मे मनः कीलितम् ॥११६०॥
मूलम् - ११६०

जयदेवस्य ।