विश्वास-प्रस्तुतिः - ११५१
आवृण्वाना झटिति जघनं मद्दुकूलाञ्चलेन
प्रेङ्खल्लीलालुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालङ्कृताभ्यां स्तनाभ्यां
दृष्टा धार्ष्ट्याद् अवनतमुखी सा मया मोहनान्ते ॥११५१॥
मूलम् - ११५१

राजशेखरस्य । (सू।मु। ८०।५, सु।र। ५८९)
विश्वास-प्रस्तुतिः - ११५२
करकिसलयं धूत्वा धूत्वा विलम्बितमेखला
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति करं पत्युर् नेत्रे विहस्य समाकुला
सुरतविरतौ रम्यं तन्वी पुनः पुनर् ईक्ष्यते ॥११५२॥
मूलम् - ११५२

कस्यापि । (स्व् २१०५, शा।प। ३७०६, सू।मु। ८०।३, सु।र। ५९१)
विश्वास-प्रस्तुतिः - ११५३
छिन्नार्धोरुकमेखलं चरणयोः सङ्क्रान्तलाक्षारसं
तल्पोपान्तम् उदीक्ष्य सस्मितसखीवैलक्ष्यसम्भ्रान्तया ।
तन्वङ्ग्या दृढदंशदन्तुरदरोच्छूनाधरोत्सङ्गया
क्षिप्ताः प्रेयसि कूटकोपकुटिलभ्रूविभ्रमा दृष्टयः ॥११५३॥
मूलम् - ११५३

धर्मयोगेश्वरस्य ।
विश्वास-प्रस्तुतिः - ११५४
पर्यस्तालकपङ्क्तिलुप्ततिलकं निष्पीतरागाधरं
श्वासोत्कम्पिपयोधरं श्रमभरस्वेदार्द्रगण्डस्थलम् ।
तन्वङ्ग्याः श्लथनीविमुक्तकवरीभारं रतान्ते वपुर्
दृष्टं मुग्धविलोकितस्मितम् अभूद् आनन्दनिस्यन्दि नः ॥११५४॥
मूलम् - ११५४

श्रीकरस्य ।
विश्वास-प्रस्तुतिः - ११५५
नयनम् अलसं स्वेदाम्भोभिः कर्म्बितम् आननं
स्खलितकवरीभाराव् अंसौ श्लथा भुजवल्लरी ।
इति मृगदृशः सम्भोगान्ते विलोक्य वपुःश्रियं
व्रजति नियतं कन्दर्पो’पि स्वबाणशरव्यताम् ॥११५५॥
मूलम् - ११५५

शङ्करधरस्य ।