विश्वास-प्रस्तुतिः - ११४६
रिपुः प्रेमारम्भे प्रथमम् अभवन् नूपुररवस्
तम् आक्षेप्तुं पाणिः प्रसरति सवाचालवलयः ।
यद् आरब्धं किञ्चित् तदुपशमहेतोः सखि मया
तदा तद्वैगुण्यं द्विगुणयति काञ्चीकलकलः ॥११४६॥
मूलम् - ११४६

विरिञ्चेः ।
विश्वास-प्रस्तुतिः - ११४७
पर्यस्तस्तनकर्मकीर्णकवरीभारं समुन्मूलित
स्रग्दाम स्वयम् अन्यद् एव तदुपक्रान्तं मया साहसम् ।
सम्पन्नाः सखि तस्य केलिविधयः प्राच्याः परं दुर्वह
श्रोणीभारभरान् मनीषितसहस्रांशो’पि नासादितः ॥११४७॥
मूलम् - ११४७

शरणदेवस्य ।
विश्वास-प्रस्तुतिः - ११४८
पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षाद् इयं
शय्यां सम्प्रति कोमलाङ्गि परुषेत्य् आरोप्य मां वक्षसि ।
गाढोष्ठग्रहपूर्वम् आकुलतया पादाग्रसंवदंशके
नाकृष्याम्बरम् आत्मनो यद् उचितं धूर्तेन तत्प्रस्तुतम् ॥११४८॥
मूलम् - ११४८

अमरोः । काश्मीरशिल्हणस्य । (स्व् २१३३)
विश्वास-प्रस्तुतिः - ११४९
दाक्षिण्याद् अतिमानतो रसवशाद् विश्रामहेतोर् मम
प्रागल्भ्यात् तद् अनुष्ठितं मृगदृशा शक्यं न यद् योषिताम् ।
निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् ततस् तारकैः
सव्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो भरः ॥११४९॥
मूलम् - ११४९

महाकवेः । (सु।र। ५९९)
विश्वास-प्रस्तुतिः - ११५०
पुरारूढप्रेमप्रबलरसरागेण हृतया
समारब्धं कर्तुं नहि यद् अबलाभावसदृशम् ।
अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया
पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् ॥११५०॥
मूलम् - ११५०

कोङ्कस्य । (सु।र। ५८५)