विश्वास-प्रस्तुतिः - ११४१
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।
तन्व्या यत् सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये
तत् त्वां पातु चिराय किं हरिहरब्रह्मादिभिर् दैवतैः ॥११४१॥
मूलम् - ११४१

अमरोः । (अमरु ३; शा।प। ३७०२)
विश्वास-प्रस्तुतिः - ११४२
नाधन्यान्विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली
लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् ।
संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापत्रुटच्
छ्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥११४२॥
मूलम् - ११४२

सोल्लोकस्य । (सु।र। ५८१)
विश्वास-प्रस्तुतिः - ११४३
विकीर्णो धम्मिल्लः श्रमसलिलबिन्दुस्तवकितो
मुखेन्दुव्याकोषं श्वसितम् इदमाः साधु सुभटे ।
अमुष्मिन् प्रारम्भे चलवलितमुक्तासरम् उरः
परं तूष्णीम् एते दधति रशनादाम्नि मणयः ॥११४३॥
मूलम् - ११४३

केन्द्रनीलनारायणस्य ।
विश्वास-प्रस्तुतिः - ११४४
माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस
प्रायं कान्तजयाय किञ्चिद् उपरि प्रारम्भि यत् सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिर् उत्कम्पितं
वक्षो मीलितम् अक्षि पौरुषरसः स्त्रीणां कः सिध्यति ॥११४४॥
मूलम् - ११४४

जयदेवस्य ।
विश्वास-प्रस्तुतिः - ११४५
सोत्कम्पश्वसितोत्तरं सपुलकस्वेदार्द्रगण्डस्थली
खेलत्कुण्डलम् अस्फुटस्मितमिलन्मन्दाक्षमुग्धेक्षितम् ।
सम्भेदेषु मिथो दृशां सुकृतिनः कस्यापि कान्ताननं
प्रभ्रश्यत्कवरीपरीतम् उरसि स्मेरस्य विश्राम्यति ॥११४५॥
मूलम् - ११४५

आवन्तिकजह्नोः ।