विश्वास-प्रस्तुतिः - ११३६
क्लेशोल्लासितलोचनं श्लथपतद्दोर्वल्लिकेलिस्खलद्
धम्मिल्लं श्वसितोत्तरङ्गम् अपरिस्पन्दं वहन्ती वपुः ।
मुञ्चेति स्खलिताक्षरेण वचसा तन्वी यथा याचते
विश्रामाय तथाधिकं रतविधाव् आकूतम् उन्मीलति ॥११३६॥
मूलम् - ११३६

कस्यचित् ।
विश्वास-प्रस्तुतिः - ११३७
भावोद्गाढम् उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं
रागाच् चुम्बितम् अप्य् उपेत्य वदनं पीतं च वक्त्रामृतम् ।
जल्पन्त्यैव मुहुर् ननेति निभृतं प्रस्तब्धचारित्रया
निःशेषेण समापितो रतिविधिर् वाचा तु नाङ्गीकृतः ॥११३७॥
मूलम् - ११३७

कस्यचित् । (सु।र। ५९३)
विश्वास-प्रस्तुतिः - ११३८
अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रम
श्वासोत्कम्पितकोमलस्तनम् उरः सायाससुप्ते भ्रुवौ ।
किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां
स्वेदाम्भः स्नपिताकुलालकलतेष्व् आवासितो मन्मथः ॥११३८॥
मूलम् - ११३८

गोसोकस्य ।
विश्वास-प्रस्तुतिः - ११३९
साक्षेपं च सचाटुकं प्रलपतोः प्रेमालसं पश्यतोर्
उत्सूत्रं च ससूत्रम् एव च परीरम्भोत्सवं कुर्वतोः ।
आकृष्यालकम् आननं च पिबतोर् उद्दामकण्ठध्वनि
क्रीडाडम्बरयोर् जयत्य् अनुपमावस्थं रहः प्रेयसोः ॥११३९॥
मूलम् - ११३९

यवतीसम्भोगकारस्य ।
विश्वास-प्रस्तुतिः - ११४०
सोत्कण्ठं परिपश्यतोर् अपि मुहुः सोत्प्रासम् आजल्पतोः
सानन्दं च सकौतुकं च मदनव्यापारम् अभ्यस्यतोः ।
दम्पत्योर् नवयौवनोज्ज्वलवपुः सौन्दर्यरम्यश्रियोः
शृङ्गारः कृतकृत्य एष मदनाधानैकहेतुः स्फुटम् ॥११४०॥
मूलम् - ११४०

प्रियंवदस्य ।