विश्वास-प्रस्तुतिः - ११३१
आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं
बाहू सीदत एव कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
वाणी सम्भ्रङ्गद्गदाक्षरपदा सङ्क्षोभलोलं मनः
सत्यं वल्लभसङ्गमो’पि सुचिराज् जातो वियोगायते ॥११३१॥
मूलम् - ११३१

कस्यचित् । (स्व् २०६५ श्रीडामरस्य; सू।मु। ५४।१० कस्यापि; पद्या। ३८० शुभ्रस्य)
विश्वास-प्रस्तुतिः - ११३२
अन्योन्यसंवलितमांसलदन्तकान्ति
सोल्लासम् आविर् अलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु
व्यावर्तमानविनयं मिथुनं चकास्ति ॥११३२॥
मूलम् - ११३२
अन्योन्यसंवलितमांसलदन्तकान्ति
सोल्लासम् आविर् अलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु
व्यावर्तमानविनयं मिथुनं चकास्ति ॥११३२॥
वामनस्य । (स।क।आ। १।११३)
विश्वास-प्रस्तुतिः - ११३३
समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः
पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि ।
तओप्भिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम्
इदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥११३३॥
मूलम् - ११३३

कस्यचित् । (सु।र। ५६५)
विश्वास-प्रस्तुतिः - ११३४
उन्मीलत्पुलकाङ्कुरेण निविडलेशनिमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्न् अभुद्
प्रत्यूहः न तयोर् बभूव सुरतारम्भः प्रियम्भावुकः ॥११३४॥
मूलम् - ११३४

जयदेवस्य । (ग्ग् १२।१०)
विश्वास-प्रस्तुतिः - ११३५
हस्तस्वस्तिकलाञ्छितां कुचतटीं सोढः स्पृशन्मुग्धया
प्रस्विद्यद्बलिवल्लरीकम् उदरं गच्छन् निरुद्धो मनाक् ।
ऊर्वोर् मूलम् उपेयिवान् अथ शनैर् माम् एति लज्जाजडं
जल्पन्त्या सुरतातिथिः किल रुषा पाणिस् तलेनाहृतः ॥११३५॥
मूलम् - ११३५

युवतीसम्भोगकारस्य ।