विश्वास-प्रस्तुतिः - १११६
कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतके’पि मृगशावकलोचनायाः ।
तत्कूजितं किम् अपि येन तदीयतल्पं
नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥१११६॥
मूलम् - १११६
कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतके’पि मृगशावकलोचनायाः ।
तत्कूजितं किम् अपि येन तदीयतल्पं
नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥१११६॥
रुद्रटस्य । (शृ।ति। १।२२ड़्)
विश्वास-प्रस्तुतिः - १११७
कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या
चातुर्यम् उद्धतमनोभवया रतेषु ।
तत्कूजितान्य् अनुवदद्भिर् अनेकवारं
शिष्यायितं गृहकपोतशतैर् यथास्याः ॥१११७॥
मूलम् - १११७
कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या
चातुर्यम् उद्धतमनोभवया रतेषु ।
तत्कूजितान्य् अनुवदद्भिर् अनेकवारं
शिष्यायितं गृहकपोतशतैर् यथास्याः ॥१११७॥
कस्यापि ।