१२७ अधरखण्डनम्

विश्वास-प्रस्तुतिः - ११०६

दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस् तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमाने’धरे
परव्यसनकातराः किम् उ न कुर्वते साधवः ॥११०६॥

मूलम् - ११०६

दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस् तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमाने’धरे
परव्यसनकातराः किम् उ न कुर्वते साधवः ॥११०६॥

कस्यचित् । (स्व् २०९७, शा।प। ३६८४, सू।मु। ७८।१३)

विश्वास-प्रस्तुतिः - ११०७

सलीलनिर्धूतकरारविन्द
सीत्कारसन्धुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥

मूलम् - ११०७

सलीलनिर्धूतकरारविन्द
सीत्कारसन्धुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥

रत्नाकरस्य ।

विश्वास-प्रस्तुतिः - ११०८

यद्दन्तदष्टदशनच्छदना चकार
सीत्कारम् आकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तद् एतद् अधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥

मूलम् - ११०८

यद्दन्तदष्टदशनच्छदना चकार
सीत्कारम् आकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तद् एतद् अधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥

जयकण्ठस्य ।

विश्वास-प्रस्तुतिः - ११०९

नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्य् अथवा स्मरस्य ।
दष्टे’धरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥

मूलम् - ११०९

नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्य् अथवा स्मरस्य ।
दष्टे’धरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥

वामनस्य । (स।क।आ। २।३८१, द।रू। २।४०ब्, सू।मु। ७८।४)

विश्वास-प्रस्तुतिः - १११०

सन्दष्टे’धरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥

मूलम् - १११०

सन्दष्टे’धरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥

युवतीसम्भोगकारस्य ।