१२५ शयनाधिरोहणम्

विश्वास-प्रस्तुतिः - १०९१

अथ रतिरभसाद् अलीकनिद्रा
मधुरविघूर्णितलोचनोत्पलाभिः ।
शयनतलम् अशिशिर्यन् वधूभिः
सह मदमन्मथमन्थरा युवानः ॥१०९१॥

मूलम् - १०९१

अथ रतिरभसाद् अलीकनिद्रा
मधुरविघूर्णितलोचनोत्पलाभिः ।
शयनतलम् अशिशिर्यन् वधूभिः
सह मदमन्मथमन्थरा युवानः ॥१०९१॥

रत्नाकरस्य ।

विश्वास-प्रस्तुतिः - १०९२

प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मराद्
औत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यम् आलोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥१०९२॥

मूलम् - १०९२

प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मराद्
औत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यम् आलोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥१०९२॥

राजशेखरस्य । (शृ।ति। २।६७ब्)

विश्वास-प्रस्तुतिः - १०९३

पर्यङ्काङ्कतलं गते रतिर् असाव्यक्तक्रमं वल्लभे
तद्भावावगतौ तयापि रतये स्वं चित्तम् आविष्कृतम् ।
नात्ते यन् मणिकुण्डले परिहृतो हारः समं कङ्कणैः
काञ्चीदाम निराकृतं विचकिलैः क्ÿप्तश् च नो शेखरः ॥१०९३॥

मूलम् - १०९३

पर्यङ्काङ्कतलं गते रतिर् असाव्यक्तक्रमं वल्लभे
तद्भावावगतौ तयापि रतये स्वं चित्तम् आविष्कृतम् ।
नात्ते यन् मणिकुण्डले परिहृतो हारः समं कङ्कणैः
काञ्चीदाम निराकृतं विचकिलैः क्ÿप्तश् च नो शेखरः ॥१०९३॥

तस्यैव ।

विश्वास-प्रस्तुतिः - १०९४

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किम् अर्थं पुनर्
मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुम् अपीह वारयति माम् इत्याहितक्रोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तो’वकाशस् तया ॥१०९४॥

मूलम् - १०९४

अमरोः [अमरु १८, स्भ् २०८१, सू।मु। ७७।११]

विश्वास-प्रस्तुतिः - १०९५

तत्र हंसधवलोत्तरच्छदं
जाह्वईपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः
शारदाभ्रम् इव रोहिणीपतिः ॥१०९५॥

मूलम् - १०९५

तत्र हंसधवलोत्तरच्छदं
जाह्वईपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः
शारदाभ्रम् इव रोहिणीपतिः ॥१०९५॥

कालिदासस्य । (क्स् ८।८२)