विश्वास-प्रस्तुतिः - १०७६
प्रणालीदीर्घस्य प्रसृमरतरङ्गस्य सुहृदः
कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः ।
सुधायाः सर्वस्वं कुसुमधनुषो’स्मान् प्रति सखे
नवं नेत्राद्वैतं कुवलयदृशः सन्निदधति ॥१०७६॥
मूलम् - १०७६

राजशेखरस्य । (वि।शा।भ। ४।१८, सु।र। ५२०)
विश्वास-प्रस्तुतिः - १०७७
तिष्ठन्त्या जनसङ्कुले’पि सुदृशा सायं गृहप्राङ्गणे
तत्कालं मयि निःसहालसतनौ वीथ्यां मृदु प्रेङ्खति ।
ह्रीनम्राननयैव लोलसरलं निश्वस्य तत्रान्तरे
प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छ्टाः ॥१०७७॥
मूलम् - १०७७

कस्यचित् ।
विश्वास-प्रस्तुतिः - १०७८
उपरि कवरीबन्धग्रन्थीन् अथ ग्रथिताङ्गुलीन्
निजभुजतले तिर्यक् तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्धामापाङ्गस्तनार्धकपोलया
कुवलयदलस्रक्सन्दिग्धश्रियः प्रहिता दृशः ॥१०७८॥
मूलम् - १०७८

परमेश्वरस्य । (सु।र। ५०९)
विश्वास-प्रस्तुतिः - १०७९
वैदग्ध्यक्रमबद्धमुग्धहसितज्योत्स्नावलिप्ताधरे
लब्धा किं नु कुरङ्गशावनयने दीक्षा त्वया मान्मथी ।
लीलानन्तरमन्मथाः शशिमुखि क्षिप्यन्त एताः कथं
कुन्देन्दीवरदीर्घदामतरलस्निग्धाः कटाक्षच्छटाः ॥१०७९॥
मूलम् - १०७९

भङ्गुरस्य ।
विश्वास-प्रस्तुतिः - १०८०
स्वच्छन्दं मीनकेतोर् युवजनमृगयाजातकौतूहलस्य
जाताबन्धावगच्छत्य् अधिगतगरिमा कार्मुकोत्तंसलक्ष्मीम् ।
यावल्लोलाक्षि नायं प्रतिफलति बलच्चन्द्रिकाकर्बुरान्तः
कालिन्दीवीचिमैत्रीम् अवतरति तवागोत्रसाक्षी कटाक्षः ॥१०८०॥
मूलम् - १०८०

जलचन्द्रस्य ।