विश्वास-प्रस्तुतिः - १०६६
आश्लेषचुम्बनरतोत्सवकौतुकानि
क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥१०६६॥
मूलम् - १०६६
आश्लेषचुम्बनरतोत्सवकौतुकानि
क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥१०६६॥
मुरारेः । (अर् ७।११५, शा।प। ३६६१, सू।मु। ७५।७, सु।र। ६०६)
विश्वास-प्रस्तुतिः - १०६७
आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गाढविगूढमन्मथस्फारीभवद्गण्डया
स्वैरं शारिविसारणाय निहितः खेदाम्बुगर्भः करः ॥१०६७॥
मूलम् - १०६७
आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गाढविगूढमन्मथस्फारीभवद्गण्डया
स्वैरं शारिविसारणाय निहितः खेदाम्बुगर्भः करः ॥१०६७॥
योगेश्वरस्य । (सु।र। ६०५, शा।प। ३६६४, सू।मु। ७५।५)
विश्वास-प्रस्तुतिः - १०६८
तथा गृहीतस् तन्वङ्ग्या
विजयोपार्जितः पणः ।
यथा धन्याधरोष्ठेन
हारितो’पि जितं मया ॥१०६८॥
मूलम् - १०६८
तथा गृहीतस् तन्वङ्ग्या
विजयोपार्जितः पणः ।
यथा धन्याधरोष्ठेन
हारितो’पि जितं मया ॥१०६८॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १०६९
अक्षदेव न पणीकृते’धरे
कान्तयोर् जयपराजये सति ।
अत्र वेति यदि वक्ति मन्मथः
कस् तयोर् जयति जीयते’पि वा ॥१०६९॥
मूलम् - १०६९
अक्षदेव न पणीकृते’धरे
कान्तयोर् जयपराजये सति ।
अत्र वेति यदि वक्ति मन्मथः
कस् तयोर् जयति जीयते’पि वा ॥१०६९॥
काश्मीरकजयवर्धनस्य । (स्व् २०४८, सू।मु। ७५।८)
विश्वास-प्रस्तुतिः - १०७०
सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखीकौशलाद्
अक्षद्यूतविधौ विजित्य मदनक्रीडापणं प्रेयसः ।
सानन्दा जयतो’पि जृम्भितघनव्रीडापि सम्भोगितः
सन्त्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥१०७०॥
मूलम् - १०७०
सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखीकौशलाद्
अक्षद्यूतविधौ विजित्य मदनक्रीडापणं प्रेयसः ।
सानन्दा जयतो’पि जृम्भितघनव्रीडापि सम्भोगितः
सन्त्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥१०७०॥
जलचन्द्रस्य ।