विश्वास-प्रस्तुतिः - १०६१
अलसमुकुलिताक्षं वक्त्रम् आलोक्य तस्या
मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
श्रवणकुवलयान्तश्चारिणा षट्पदेन
क्षणम् अनुगतनादं गीतम् अन्तः स्मरामि ॥१०६१॥
मूलम् - १०६१
अलसमुकुलिताक्षं वक्त्रम् आलोक्य तस्या
मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
श्रवणकुवलयान्तश्चारिणा षट्पदेन
क्षणम् अनुगतनादं गीतम् अन्तः स्मरामि ॥१०६१॥
श्रीमल्लक्ष्मणसेनदेवस्य ।
विश्वास-प्रस्तुतिः - १०६२
नाधन्यैः क्षणदाविराममधुराः किञ्चिद् विनीता रसैः
श्रोत्रैर् नापि च किन्नरीकलगलोद्गीतानि पेयानि च ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम
व्यालोलाङ्गुलिरुद्धमुग्धसुषिरश्रेणीरवा वेणवः ॥१०६२॥
मूलम् - १०६२
नाधन्यैः क्षणदाविराममधुराः किञ्चिद् विनीता रसैः
श्रोत्रैर् नापि च किन्नरीकलगलोद्गीतानि पेयानि च ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम
व्यालोलाङ्गुलिरुद्धमुग्धसुषिरश्रेणीरवा वेणवः ॥१०६२॥
योगेश्वरस्य ।
विश्वास-प्रस्तुतिः - १०६३
विलासमसृणोलसन् मुसललोलदोःकन्दलाः
परस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः ।
चलन्ति कलदुङ्कृतिप्रसभकम्पितोरःस्थल
त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः ॥१०६३॥
मूलम् - १०६३
विलासमसृणोलसन् मुसललोलदोःकन्दलाः
परस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः ।
चलन्ति कलदुङ्कृतिप्रसभकम्पितोरःस्थल
त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः ॥१०६३॥
तस्यैव । (शा।प। ५८२, सु।र। ११७८)
विश्वास-प्रस्तुतिः - १०६४
चिन्वानाभिर् मधूकं मधुरमधुकरध्वानिचूताङ्कुराग्र
ग्रासव्यग्रान्यपुष्टध्वनितधृतजयारम्भसंरम्भणाभिः ।
गीयन्ते वल्लवीभिः पथिकसहचरीप्राणयात्राप्रदीपाः
प्रातः प्रातर् वसन्तस्वररचितपदोद्गारिणो गीतभेदाः ॥१०६४॥
मूलम् - १०६४
चिन्वानाभिर् मधूकं मधुरमधुकरध्वानिचूताङ्कुराग्र
ग्रासव्यग्रान्यपुष्टध्वनितधृतजयारम्भसंरम्भणाभिः ।
गीयन्ते वल्लवीभिः पथिकसहचरीप्राणयात्राप्रदीपाः
प्रातः प्रातर् वसन्तस्वररचितपदोद्गारिणो गीतभेदाः ॥१०६४॥
विरिञ्चेः ।
विश्वास-प्रस्तुतिः - १०६५
क्वचिन् मसृणमांसलं क्वचिद् अतीव तारं पदे
प्रसन्नसुभगं मुहुः सुरतरङ्गलीलाङ्कितम् ।
इदं हि तव वल्लवीरणितनिर्गतैर् जल्पितं
मनो मदयतीव मे किम् अपि साधु सङ्गीतकम् ॥१०६५॥
मूलम् - १०६५
क्वचिन् मसृणमांसलं क्वचिद् अतीव तारं पदे
प्रसन्नसुभगं मुहुः सुरतरङ्गलीलाङ्कितम् ।
इदं हि तव वल्लवीरणितनिर्गतैर् जल्पितं
मनो मदयतीव मे किम् अपि साधु सङ्गीतकम् ॥१०६५॥
वामनस्य ।