११४ नायिकागमनम्

विश्वास-प्रस्तुतिः - १०४१

शय्यागारं व्रजन्त्याश् चतुरसहचरीमुग्धोक्तिमिश्रं
प्राणेशायाः स्मरज्यारणितम् इव समाकर्ण्य मञ्जीरघोषम् ।
यामिन्याः पूर्वयामे विगलति विततौत्सुक्यम् उज्जृम्भमाणो
धन्यो निद्राच्छलेन श्लथयति सुहृदां नर्मगोष्ठीप्रबन्धम् ॥१०४१॥

मूलम् - १०४१

विक्रमादित्यस्य ।

विश्वास-प्रस्तुतिः - १०४२

नितम्बगुर्वी बहुशः श्रमेण
विश्रम्य सोपानपदेषु काचित् ।
काञ्चीकरालम्बितवामपाणिर्
उत्थाय हर्म्यं कलयारुरोह ॥१०४२॥

मूलम् - १०४२

नितम्बगुर्वी बहुशः श्रमेण
विश्रम्य सोपानपदेषु काचित् ।
काञ्चीकरालम्बितवामपाणिर्
उत्थाय हर्म्यं कलयारुरोह ॥१०४२॥

राजशेखरस्य ।

विश्वास-प्रस्तुतिः - १०४३

एषागतैव निबिरीसनितम्बबिम्ब
भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
यान्त्या इतीव दयितान्तिकम् एणदृष्टेर्
अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥१०४३॥

मूलम् - १०४३

एषागतैव निबिरीसनितम्बबिम्ब
भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
यान्त्या इतीव दयितान्तिकम् एणदृष्टेर्
अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥१०४३॥

रत्नाकरस्य ।

विश्वास-प्रस्तुतिः - १०४४

प्रकामं सुप्रातं तव नयन सम्पन्नम् अभितस्
तवाप्य् आप्तं चेतः फलम् इह मनोराज्यलतया ।
स्मरायासप्रोषप्रशमविधिसिद्धौषधिर् इयं
स्फुरन्ती सम्प्राप्ता शशधरकलेव प्रियतमा ॥१०४४॥

मूलम् - १०४४

प्रकामं सुप्रातं तव नयन सम्पन्नम् अभितस्
तवाप्य् आप्तं चेतः फलम् इह मनोराज्यलतया ।
स्मरायासप्रोषप्रशमविधिसिद्धौषधिर् इयं
स्फुरन्ती सम्प्राप्ता शशधरकलेव प्रियतमा ॥१०४४॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १०४५

चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यताम्
आयाता स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण
क्रीडाचञ्चलपाणिकङ्कणझणत्कारो मुहुर् मूर्च्छति ॥१०४५॥

मूलम् - १०४५

चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यताम्
आयाता स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण
क्रीडाचञ्चलपाणिकङ्कणझणत्कारो मुहुर् मूर्च्छति ॥१०४५॥

कस्यचित् । (सू।मु। ७०।८, सु।र। १६४१)