१०७ वनविहारः

विश्वास-प्रस्तुतिः - १००६

उज्झन्त्यः स्वर्णकाञ्चीर् झणिति रशनया चम्पकन्यासमय्या
तन्वत्यस् तारहारान् विचकिलकलिकापङ्क्तिमुद्रावलीभिः ।
किं चाशोकप्रवालैर् अरुणमणिमयान् सन्त्यजन्त्यो’वतंसान्
उत्कीर्णाः कामबाणैर् इव हृदि सुहृदो वल्लभानां बभूवुः ॥१००६॥

मूलम् - १००६

राजशेखरस्य ।

विश्वास-प्रस्तुतिः - १००७

दूरोदञ्चितबाहुमूलविलसच्चीनप्रकाशस्तना
भोगव्यायतमध्यलम्बिवसना निर्मुक्तनाभीह्रदा ।
आकृष्टोज्झितपुष्पमञ्जरिरजःपातावरुद्धेक्षणा
चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्रदुःस्था तनुः ॥१००७॥

मूलम् - १००७

दूरोदञ्चितबाहुमूलविलसच्चीनप्रकाशस्तना
भोगव्यायतमध्यलम्बिवसना निर्मुक्तनाभीह्रदा ।
आकृष्टोज्झितपुष्पमञ्जरिरजःपातावरुद्धेक्षणा
चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्रदुःस्था तनुः ॥१००७॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १००८

कङ्केलिर् एष किम् अचेतन एव सत्यं
नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
धूर्तो’थवा नमति नायम् उदस्तबाहु
व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥१००८॥

मूलम् - १००८

कङ्केलिर् एष किम् अचेतन एव सत्यं
नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
धूर्तो’थवा नमति नायम् उदस्तबाहु
व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥१००८॥

तस्यैव ।

विश्वास-प्रस्तुतिः - १००९

एतस्मिन् सुतनु लतागृहे’तिरम्यं
मालत्याः कुसुमम् अनाचितं परेण ।
इत्य् उक्त्वा मृदुकरपल्लवं गृहीत्वा
मुग्धाक्षीं रहसि निनाय को’पि धूर्तः ॥१००९॥

मूलम् - १००९

एतस्मिन् सुतनु लतागृहे’तिरम्यं
मालत्याः कुसुमम् अनाचितं परेण ।
इत्य् उक्त्वा मृदुकरपल्लवं गृहीत्वा
मुग्धाक्षीं रहसि निनाय को’पि धूर्तः ॥१००९॥

जयमाधवस्य ।

विश्वास-प्रस्तुतिः - १०१०

तासां पीनस्तनकलसयोः स्थूलमुक्ताभिरामा
वेणीभूतास् त्रिवलिविषमे तिर्यगायामभाजः ।
वक्त्रे लोलालकविलुलिताः केतकक्षोदलक्ष्मीं
प्राप्ताः क्रीडावनविहरणे बिन्दवः स्वेदवाराम् ॥१०१०॥

मूलम् - १०१०

तासां पीनस्तनकलसयोः स्थूलमुक्ताभिरामा
वेणीभूतास् त्रिवलिविषमे तिर्यगायामभाजः ।
वक्त्रे लोलालकविलुलिताः केतकक्षोदलक्ष्मीं
प्राप्ताः क्रीडावनविहरणे बिन्दवः स्वेदवाराम् ॥१०१०॥

धोयीकस्य ।