१०१ विलापः

विश्वास-प्रस्तुतिः - ९७६

यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तद् इन्दीवरं
मेघैर् अन्तरितः प्रिये तव मुखच्छायाभिरामः शशी ।
ये च त्वद्गमनानुकारिगतयस् ते राजहंसा गतास्
त्वत्सादृश्यविनोदमात्रम् अपि मे दैवेन न क्षम्यते ॥९७६॥

मूलम् - ९७६

कालिदासस्य । (म्न् ५।२, कुवल्, प्।१२; स।क।आ। ४।२१, ५।४८६; स्व् १३६६, सा।द। उन्देर् १०।८१)

विश्वास-प्रस्तुतिः - ९७७

दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता
पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी ।
प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥९७७॥

मूलम् - ९७७

रुद्रटस्य । (शृ।ति। २।६०अ)

विश्वास-प्रस्तुतिः - ९७८

स्निग्धश्यामलकान्तिलिप्तनियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदाम् आनन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो’स्मि सर्वंसहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥९७८॥

मूलम् - ९७८

कस्यचित् । (सा।द। उन्देर् २।१६)

विश्वास-प्रस्तुतिः - ९७९

एह्य् एहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम्
एतस्य त्वचम् उच्चरामि कुचयोर् विन्यस्य वर्णांशुकम् ।
मत्सौभाग्यबुभुत्सयापि विपिनेष्व् एकाकिनी मा स्म भूर्
विद्विष्टा मयि सञ्चरन्ति सरले मायाविनो राक्षसाः ॥९७९॥

मूलम् - ९७९

कस्यचित् ।

विश्वास-प्रस्तुतिः - ९८०

किं खिद्यसे भुज मुधाधर ताम्यसि त्वं
चक्षुर् विमुञ्च शुचम् अस्ति हृदि प्रियेयम् ।
आश्लेषचुम्बनविलोकनकेलयो’पि
सेत्स्यन्ति वः स्फुटति मे हृदयं मुहूर्तम् ॥९८०॥

मूलम् - ९८०

शान्त्याकरगुप्तस्य ।