विश्वास-प्रस्तुतिः - ९७१
दुःखानि तिष्ठत चिरं मम चित्तभूमौ
युष्माकम् एव वसतिर् विधिना कृतेयम् ।
यद्दैवदुर्विलसितक्रकचप्रहारैश्
छिन्नो’पि न त्रुटति जीवनतत्त्वबन्धः ॥९७१॥
मूलम् - ९७१

कस्यचित् ।
विश्वास-प्रस्तुतिः - ९७२
अग्न्याकारं कलयसि पुरश् चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।
प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्यतुल्यांस्
तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥९७२॥
मूलम् - ९७२

रुद्रटस्य । (शृ।ति। २।११अ)
विश्वास-प्रस्तुतिः - ९७३
एते चूतमहीरुहो’प्य् अविरलैर् धूमायिताः षट्पदैर्
एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैर् अशोकद्रुमाः ।
एते किंशुकशाखिनो’पि मलिनैर् अङ्गारिताः कुड्मलैः
कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥९७३॥
मूलम् - ९७३

वाक्कूटस्य । (सु।र। ७५९)
विश्वास-प्रस्तुतिः - ९७४
कान्तामुखं सुरतकेलिविमर्दखेद
सञ्जातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं तरलतारनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥९७४॥
मूलम् - ९७४
कान्तामुखं सुरतकेलिविमर्दखेद
सञ्जातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं तरलतारनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥९७४॥
कस्यचित् । (स्व् १२८९, शा।प। ३४६६)
विश्वास-प्रस्तुतिः - ९७५
चन्द्रोदञ्च चिरं मनोभवचमूचिह्नांशुकैर् अंशुभिर्
मन्दं चन्दनशैलसौरभभरैश् चैत्रानिलाः सर्पत ।
उज्जृम्भस्व मधो मधुव्रतवधूवाचालवल्लीशतैश्
चापं मण्डलयन्न् अयं विरहिणां प्राणैः स्मरः क्रीडतु ॥९७५॥
मूलम् - ९७५

शान्त्याकरस्य ।